SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसूत्रम् ।। १३४ ।। मगधेषु पुरा ग्रामे, पूरवारकसझके । विप्रो भूपनियुक्तोऽभू - कृषिः पाराशराभिधः || १ || ग्रामीणैः सोऽन्यदा लोकैराजक्षेत्राणि वापयन् || निर्दयं वाहयामास, वेष्टया सीरशतानि षट् ॥ २ ॥ क्षुधितांस्तृषितान् श्रांतान्, तान् वृषन्मानुषांश्च सः ॥ भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ॥ ३ ॥ किन्तु तैर्व्याकुलैर्गोभिः कर्षकैश्च पृथक् पृथक् ।। एकैकवारं स्वक्षेत्रे - वाहयत् हलषट्शतीम् ॥ ४ ॥ ततोऽन्तरायकरणात्, दृढं कर्मान्तरायिकम् । उपाये मृत्वा भ्रान्त्वा च भवे किमपि पुण्यतः ॥ ५ ॥ द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः । सोऽभवडुण्ढणादेवी - कुक्षिजो ढण्ढणाभिधः ॥ ६ ॥ [ युग्मम् ] क्रमात्स यौवनं प्राप्तो, भूयसीर्भूपपुत्रिकाः ॥ पर्यणैषीत्वसौन्दर्या - धरितामरसुन्दरीः ॥ ७ ॥ श्रीनेमिस्वामिनः पार्श्व, धर्ममाकर्ण्य सोऽन्यदा || विरक्तः प्रात्रजत्कृष्ण - कृत दीक्षामहोत्सवः ॥ ८ ॥ अधीयानः श्रुतं सार्धं, स्वामिना विजहार सः । तस्यान्तरायिकं कर्मा - ऽन्यदोदयमवाप तत् ॥९॥ ततः स विष्णोः पुत्रोऽपि शिष्योऽपि त्रिजगद्गुरोः ॥ द्वारकायां पुरि स्वर्ग- लक्ष्मीजित्वरसम्पदि ॥ १०॥ महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् ॥ भैक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा ! ॥ ११ ॥ [ युग्मम् ] समं तेन गतोऽन्योऽपि, मुनिः किचन नाऽशे ॥ ततो हेतुमलब्धेः श्री नेमिं पप्रच्छ ढण्ढणः ॥ १२ ॥ तत्पूर्वभववृचान्तं, ततस्तं प्रभुरभ्यधात् ॥ तं श्रुत्वा गाढसंवेगो, ढढणोऽभ्यग्रहीदिति ॥ १३ ॥ लाभं मुनीनामन्येषां न भोक्ष्येऽहमतः परम् || अभिगृह्येति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ॥१४॥ भिक्षां चालभमानः स नोद्विवेज न वा जनम् || निनिन्द किन्तु स्वं कर्म - दोषमेव व्यचिन्तयत् ॥ १५ ॥ अदीनमानसो नित्य-मित्यलाभपरीषदम् || सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः ॥ १६ ॥ अथान्यदा नेमिनाथं, पप्रच्छेति नरायणः ॥ एषु स्वा १ 'बेठ' वडे इति भा० । २ वृषभान् । ३ कृषीवलैः । ४ न लेमे इस्वर्थः । ५ श्रीपतिः । 404 अध्य०१ ॥१३४॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy