________________
उचराभ्यः यनरत्रम्
»ike
पानाशनैः साधु, प्रतिलम्भयति स्म यः॥ २३६ ॥ निर्भाग्योऽहं तु सम्प्राप्त-तिर्यक्त्वः कर्मदोषतः ॥ तपस्तप्तुं मुनेर्दातु-श्वासमर्थः करोमि किम् ? ॥ २३७ ॥ तदा च रामरथकृ-न्मृगाणामुपरि क्षणात् ॥ महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ॥ २३८॥ ६ अध्यार पतता तरुणा तेन, सुध्यानास्ते हतास्त्रयः॥ ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः॥२३९ ॥ व्रतं वर्षशतं याव-त्प्रपाल्य | त्रिंदिवं गतः ॥ रामोऽथावधिनाऽज्ञासी-तृतीयनरकेऽनुजम् ॥२४०॥ ततः स भ्रातरं द्रष्टु-मुत्सुकः स्नेहसम्भ्रमात् ॥ कृष्णाम्यर्णमगात्कृत्वा, वपुरुत्तरवैक्रियम् ॥ २४१ ।। मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरैम् ॥ पूर्ववत्स्नेहलो रामः, परिभ्यैवमब्रवीत् ॥ २४२ ॥ भ्राता ते रामनामाहं, पञ्चमादेवलोकतः ॥ इहाऽऽगतोऽसि तब्रूहि, किमभीष्टं करोमि ते ? ॥२४३॥ कृष्णोऽप्युवाच स्वकृत-कर्मदोषोद्भवामिमाम् ॥ पीडां भुजे न कोऽप्यत्र, प्रतिकर्तु भवेत्प्रभुः ॥२४॥ ततो रामस्तमाक्रष्टुं, नरकात्स्नेहमोहितः॥ द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ॥ २४५ ॥ उत्पाटितः स रामेण, वह्निस्थनवनीतवत् ॥ विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ॥ २४६ ॥ मां मुश्च मुश्च हे भ्रातः!, प्रयासेनामुना कृतम् ॥ त्वया बुत्पाद्यमानस्य, पीडा मे जायते भृशम् ।। २४७॥ न च कर्मपरीणामो, देवैरप्यन्यथा भवेत् ॥ तत्प्रयत्नममुं त्यक्त्वा, मदभीष्टमदः कुरु ॥२४८।। शङ्खचक्रगदाखड्ग-धारिणं गरु-* डध्वजम् ।। पीताम्बर विमानस्थं, कृत्वा मामञ्जनद्युतिम् ॥२४९।। आत्मानं हलमुसल-धारिणं नीलवाससम् ॥ तालकेतुं विमानस्थं, विकृत्येन्दुच्छविच्छविम् ॥ २५०॥ गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे ॥ विशेषतो द्वेषिपुरे-ध्वस्मन्नाशप्रमोदिषु ॥ २५१ ॥
कम्पितः । ३ स्वर्गम् । । लघुबन्धुम् । १ भ्रातरम् । ५ भालिन्य । ६ 'मांखण' इति भा० । ७-८ वस्त्रम् । ९ चन्द्रस्य कान्तिरिव कान्तिर्यस्य सः तम् । १० रिपुपुरे इति हर्ष० प्रती ।
AGAR
Us