________________
उत्तराध्ययनसूत्रम् ॥७॥
चेटको दिव्यबाणेन, तं कृतान्तातिथिं व्यधात् ।। ५९ ॥ चंपापतेर्बलं शोका-कुलं द्रष्टुमिवाक्षमः ॥ तदा भानुजंगामास्तं, विशश्राम | ततो रणः॥६०॥ द्वितीयेऽप्यति सैन्याभ्या-मारब्धे संगरे पुनः ॥ महाकालं कृणिकस्य, सेनान्यं चेटकोऽवधीत् ॥ ६१ ॥ अन्ये- अध्य०१ | ष्वपि हतेष्वेवं, तेनाष्टस्वष्टभिर्दिनैः ॥ शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ॥ ६२॥ राज्ञोऽस्याऽजानता दिव्यां, शक्ति
भा॥७॥ | मेतां हहा मया । मुधैव प्रापिताः कालं, कालाद्या भ्रातरो दश ॥ ६३ ॥ तदद्यापि सुरं कंचिदाराध्यासु जयाम्यरिम् ।। नो चेद्भवि| ष्याम्यनुग-स्तेषामहमपि द्रुतम् ॥ ६४ ॥ ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् ।। प्राग्जन्मसंगतौ शक्र-चमरेंद्रावुपेयतुः ॥६५॥ किमिच्छसीति जल्पंतौ, तावित्यूचेऽथ कूणिकः ।। यदि तुष्टौ युवां सद्य-श्वेटको मार्यतां तदा ॥६६॥ ऊचे शकः सध
र्माणं, चेटकं न हि हन्म्यहम् ॥ करिष्याम्यंगरक्षां तु, तव भक्तिवशंवदः । ६७॥ महाशिलाकंटकाह्व-रथादिमुशले रणे ॥ चमरेंद्र४ स्त्वदात्तस्मै, वैरिनिर्जयकारणे ॥ ६८ ॥ तत्राद्ये वैरिषु क्षिप्ता-वपि कर्करकंटको ।। महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ॥ ६९॥
युद्धे द्वितीये तु, रथमुशले भ्रमकं विना ॥ भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ॥ ७० ॥ ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् ॥ ममंथ वार्द्धिव्यूह च, मंथाचल इवोदधिम् ॥ ७१ ॥ तमापतंतं संहा. सामर्षश्चेटको नृपः मुमोचाकर्णमाकृष्य, सद्यो दिव्यं । शिलीमुखम् ॥ ७२ ॥ कूणिकस्य पुरो वज्र-कवचं वज्रभृद्दधौ ॥ पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः ॥ ७३ ॥ तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा || भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् ॥ ७४ ॥ सत्यसंधो द्वितीयं तु, चेटको नामुचच्छरम् ॥ द्वितीयेऽप्यति तद्वाणं, तथैवाजनि निष्फलम् ॥ ७५ । आये रणे षण्णवति-लक्षा नृणां ययुः क्षयम् ॥ लक्षाश्चतुरशीतिश्च, द्वितीये | |तु महाहवे ॥ ७६ ॥ तेष्वेको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् ॥ तत्महद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे ।। ७७ ॥ इत्यन्वहं|