________________
अध्य०१ man
| सर्व खोदंतमावेद्या-स्थातां तत्कृतगौरवौ ॥४१॥ कूणिकस्तूभयभ्रष्ट-तया चिन्ताञ्चितस्ततः॥ वैशाल्यां तौ गतौ ज्ञात्वा, उचराध्य- | प्रैषीद्रुतं वचखिनम् ॥ ४२ ॥ गत्वा दूतोऽपि वैशाली, नत्वा. चेटकमित्यवक् ॥ राजन्! कणिकराजस्त्वां, मया विज्ञपयत्यदः यनसूत्रम्
४॥४३॥ गजादिरत्नान्यादाया-गताविह कुमारको ॥ प्रेषणीयो द्रुतं पूज्य-स्तुल्यैर्मयि तयोस्तथा ॥४४॥ तौ चेन्नागच्छतस्तर्हि,
प्रेष्यं सद्यो द्विपादिकम् ॥ नो चेद्वो भविता भूया-नायासोऽनुशयावहः ॥ ४५ ॥ अथेति चेटकोऽवोच-दूत! त्वं ब्रूहि कृणिकम् ॥ तातदत्ता भ्रातृलक्ष्मी-ग्रहीतुं युज्यते न ते ॥ ४६॥ रक्ष्यते शरणायाताः, किं चान्येऽपि मनखिभिः ॥ तद्दौहित्रौ कथं
कारं, प्रेषणीयाविमौ मया ? ॥४७॥ दौहित्रत्वात्समाना मे, भवंतो यद्यपि त्रयः ॥ न्यायित्वादाश्रितत्वाच्च, विशिष्येते तथाऽप्यमू &॥४८॥ सत्यप्येवं दापयामि, द्विपादि तव तुष्टये ॥ ददासि यदि राज्यांशं, न्यायोपेतं त्वमेतयोः॥४९॥ तच्चेटकवचो गत्वा..
दूतः स्वस्वामिनेऽवदत् ॥ क्रोधाध्मातस्ततः सोऽपि, यात्राभंभामवीवदत् ॥५०॥ कालाधैर्दशभियुक्तो, भ्रातृभिर्निजसन्निभैः॥ त्रयस्त्रिंशत्सहस्राश्व-रथसिंधुरसंयुतः॥५१॥त्रयस्त्रिंशत्कोटिपत्ति-कलितश्चलितस्ततः ।। कूणिकोऽच्छादयत्सैन्यै- वं द्यां च रजोभरैः ॥५२॥ | (युग्मम् ) ततोऽष्टादशभि-भूपैर्मुकुटधारिभिः ॥ सप्तपंचाशत्सहस्र-रथहस्तियान्वितः॥५३॥ चेटकोऽप्यभ्यगात्सप्त-पंचाशत्को
टिपत्तियुक् । खदेशसीम्नि सैन्ये च, वार्धिव्यूहमचीकरत् ॥ ५४ ॥ (युग्मम्) कूणिकोऽप्यागतस्तत्र, तायव्यूहं व्यधाबले ॥ न्यमाधाच्चभूपतित्वे च, कालं कालमिवोत्कटम् ।। ५५॥ व्यक्तवीरगणोन्मुक्त-पृषक्ताच्छादितांबरे ॥ आरेभाते रणं भीम-मुमे अपि | ततो बले ॥ ॥५६॥ निषादिना व्यधायुद्धं, निषादी रथिना रथी ॥ सादिना च समं सादी, पदातिस्तु पदातिना ॥ ५७ ॥ कालो | जयार्थमुत्तालः, समं चेटकसेनया ॥ युध्यमानस्तदा राज्ञ-श्चेटकस्यान्तिके ययौ ॥ ५८ ॥ दिन प्रत्येकविशिख-मुक्तिसंधाधरस्ततः॥