________________
उचराध्य
यनसूत्रम्
॥१६३॥
विश्वलोकानां, 'जीवातुर्मम दुःखिनः || १२४ || अस्ति वः शरणे तस्मा - शुष्माभिर्वनदेवताः ! ॥ श्रातव्योऽयमिति प्रोच्चैः प्रोच्याऽगादम्भैसे बलः ।। १२५ ।। वितन्वन्मृगयां दीर्घ- कूर्चस्तूणधनुर्धरः । व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जर्राङ्गजः ॥ १२६ ॥ तथास्थं सोऽच्युतं वीक्ष्य. मृगोऽयमिति चिन्तयन् || निचखान शरं तीक्ष्णं, तदङ्गितलमर्मणि ॥ १२७ ॥ उत्थायाऽथ द्रुतं विष्णुः, माह निर्मन्तुरप्यहम् || अनालाप्यैव केनैवं, शरेणाङ्घ्रितले हतः ॥ ॥ १२८ ॥ नाज्ञातगोत्रनामा य-त्कोऽपि पूर्व हतो मया ! ॥ तद्गोत्रञ्चाभिधानञ्च त्वमप्याssख्याहि मे निजम् ॥ १२९ ॥ निकुञ्जस्योऽथ स प्रोचे, हरिवंशरवेरहम् ॥ सुतोऽस्मि वसुदेवस्य, जरा| देवीसमुद्भवः ॥ १३० ॥ जराकुमारनामाऽग्र-जन्मा राममुकुन्दयोः ॥ श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ॥ ॥ १३१ ॥ द्वादशाब्दीबभूवाद्य, वसतोऽत्र वने मम ॥ नाऽपश्यं मानुषं त्वत्र, ब्रूहि कस्त्वमिहाऽऽगतः १ ॥ १३२ ॥ तच्छ्रुत्वा विष्णुरित्याख्य- दागच्छागच्छ बान्धव ! ।। तव भ्राताऽस्म्यहं कृष्णो, यं त्रातुं त्वं वनं श्रितः ! ॥ १३३ ॥ भ्रातर्द्वादश वर्षाणि, वनवासादिकस्तव || मुधायासोऽभवन्मिथ्या - मतेरिव तपस्यतः ! ॥ १३४ ॥ तदाकर्ण्याकुलखांतः सम्भ्रान्तो भृशमुन्मनाः ॥ केशवो वक्ति किमय-मिति दध्यौ जराङ्गजः ॥ १३५ ॥ आययौ च द्रुतं तत्र, प्रेक्षाञ्चक्रे च केशवम् || प्रजल्पन् हा ! हतोमीति, मुमूच्छोय पपात च ॥ १३६ ॥ कथञ्चिल्लब्धसंज्ञस्तु जराभूविलपन् भृशम् || अप्राक्षीत्पुण्डरीकाक्षं त्वमागाद्धातरत्र किम् ? ॥ ॥१३७॥ द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ॥ किं नेमिस्वामिनो वाणी, सा सर्वा सूनृताऽभवत् १ ॥१३८॥ कृष्णोऽथ १ जीवनम् । २ जलाय ३ लांबी दाढीवालो भा० । ४ चापबाणधरः । ५ कैवर्तकः 'शीकारी' भा० । ६ जराकुमारः । ७ निरपराधी । ८ पादतले । ९ बलकेशवयोः | १० व्याकुलहृदयः । ११ पृथ्व्याम् । १२ कृष्णम् । १३ सत्या ।
अ
२
॥ १२३॥ :