________________
उतराज्यबनसूत्रम् ॥१२०॥
"
इत्युक्त्वा ते नमस्कारान् गणयन्तोऽवतस्थिरे ॥ ८० ॥ द्वैपायनामरस्तेषु, ववर्षाथ 'हुताशनम् ॥ ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ॥ ८१ ॥ अथो रुदन्तौ करुणं, बहिर्गत्वा बलाच्युतौ ॥ जीर्णोद्यानस्थितौ दहा-मानां दहशतुः पुरीम् ।। ८२ ।। ज्वलत्पशुजनाक्रन्द-कोलाहलसमाकुलाम् ॥ परितः प्रसृतज्वाला - जिह्नज्वालाकरालिंताम् ॥ ८३ ॥ श्राद्धदेव श्रोत्रियस्य, वह्निकुण्डस्त्र|माश्रिताम् । तौ वीक्ष्य द्वारकां बाप्पा - प्लुताक्षाविति दध्यतुः ॥ ८४ ॥ [ युग्मम् ] पुरन्दरघनुष्कल्प- मनित्यत्वमहो ! श्रियाम् ॥ जलबुदुर्बुदेदेश्यं च जीवितव्यमहो ! विशाम् ॥ ८५ ॥ स्वमसङ्गमकल्पाश्च, बन्धुसङ्गा अहो अमी ! ॥ अहो ! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः ॥ ८६ ॥ यदुक्तं धारिज्जह इंतो जल-निही वि कल्लोलभिन्नकुलसेलो || न हु अग्रजम्मनिम्मि असुदासुहो दिवपरि| णामो ॥ ८७ ॥" अथोवाच हरिः सर्व- सम्पत्खजन वर्जितौ । आवां भ्रातः ! क याख्याको ?, भीतौ यूथच्युतैर्णवत् ॥ ८८ ॥ बलोsवादीत्पाण्डुपुत्राः सन्ति नः स्निग्धबान्धवाः ॥ तत्पुरीं पाण्डुमथुरां यास्यावोऽवाच्यवाद्धिमाम् ॥ ८९ ॥ प्रोचे कृष्णो मया कृष्ण, प्रत्यादाय समेयुषा ॥ गङ्गोत्तरणवेलायां, बेडान्तर्द्धा निरोषतः ॥ ९० ॥ पाण्डवा राज्यमाच्छिय, तदा निर्विषयाः कृताः ॥ | दुर्दशायां गमिष्यावः, तत्पार्श्व साम्प्रतं कथम् ? ॥ ९१ ॥ ( युग्मम्) रामोऽवग् न स्मरन्त्यार्या, दुःखप्नमिव विप्रियम् ॥ दुष्प्रापम न्त्रवचैवोपकारं बिस्मरन्ति च ॥ ९२ ॥ तन्मेदं विमृश भ्रातः !, कर्त्तारो भक्तिमेव ते ।। श्रुत्वेति सबलः पूर्वा, प्रत्यचालीवरायणः ॥ ९३ ॥ इतश्र द्वारकापुर्यां ज्वलन्त्यां कुब्जधारकः ॥ रामसूनुः स्वगेहान - मारुझोचैरदोऽवदत् ॥ ९४ ॥ अहं
१ अग्निम् | २ प्रसृतवह्निज्वालाभयङ्कराम् । १ इन्द्रधनुः समानम् । ४ बुद्बुदम् 'परपोटो' इति भा० ५ प्राणीनाम् । ६ यूथभ्रष्टहरिणवत् । * यास्यावोऽपाच्यचार्जिगाम् । समुद्रगाम् । ८ नदीम् । २ गोपणद्वेषतः | १० देशरहिताः ।
| अध्य०२
| ॥१२०॥