________________
उत्तराध्यबनसूत्रम्
॥ ११६ ॥
कनीयांसं कुलाधारं, आतरं भ्रातृवत्सलम् । कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ॥ १५ ॥ तदेतदन्यथा कुर्वे, ध्यायमिति जराङ्गजः ॥ जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ॥ १६ ॥ जिनवाचं जनश्रुत्या, श्रुत्वा द्वैपायनोऽपि ताम् ॥ यदूनां द्वारकायाथ, रक्षां कर्तुमगाद्वनम् ॥ १७ ॥ नत्वान्तं हरिरपि, प्राविशद्वारकापुरीम् ॥ तं चानर्थं मद्यमूलं ध्यायन्नित्युदघोषयत् ॥ १८ ॥ मद्योन्मत्तकुमारौघ- हताद्वैपायनाद्यतः ॥ उपद्रवो द्वारकायाः, श्रीनेमिस्वामिनोदितः ॥ १९ ॥ तत्पार्श्वस्थाचलासनकदम्बवनमध्यतः । कादम्बरीदरीवर्त्ति – शिलाकुण्डेषु भूरिषु ॥ २० ॥ सकलं प्राक्कतं मद्यं, हेयं पेयं न तत्पुनः ॥ लोकाः सर्वेऽपि तच्छ्रुत्वा, जह्रुस्तत्राखिलां सुराम् ॥ २१ ॥ ( त्रिमिर्विशेषकम् ) आताऽथ बलदेवस्य स्नेहात्तस्यैव सारथिः ॥ सिद्धार्थः श्रुत| सर्वज्ञ - वाणिरित्यवदद्बलम् ॥ २२ ॥ नोत्सहे दुर्दशां प्राप्ते, द्रष्टुं स्वीयंपुरीकुले | तदहं स्वामिपादान्ते, प्रव्रजामि त्वदाज्ञया ॥२३॥ | ततोऽब्रवीद्वलोज - खपदश्रुजलाविलः ॥ भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ॥ २४ ॥ किन्तु व्रतं पालयित्वा त्वं देवत्वम्मुपागतः ॥ भ्रातम व्यसनप्राप्त - मागत्य प्रतिबोधयेः ॥ २५ ॥ तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके ॥ अत्युग्रश्च तपस्तप्त्वा | षड्भिर्मासैः सुरोऽभवत् || २६ || इतश्वानेकवृक्षौष - पतत्कुसुमसङ्गमात् ॥ षण्मास्या सा सुरा कुण्ड - स्थिता पक्वरसाऽभवत् ॥ २७ ॥ तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन् बने ॥ तत्र यातस्तृषाकान्तः, पपौ तां मदिरां मुदा ॥ २८ ॥ मुदितस्तेन मधेन, | भृत्वा पार्श्वस्थितां दृतिम् ॥ ददौ शाम्बाय तत्पीत्वा तुष्टः शाम्बोऽपि तं जगौ ॥ २९ ॥ प्राप्तं हृद्यमिदं मद्य - मद्य कुत्र ! त्वया | सखे ! | कादम्बरी कन्दराया - मवापमिति सोऽप्यवक् ॥ ३० ॥ कुमारैः सह दुर्दान्तै- स्ततः शाम्बोऽपरेऽहनि ।। गुहां कादम्बरीं
१ लघुम् । २ बाणधनुर्भत् । ३ अचलः पर्वतः । ४ दरी गुफा । ५ आत्मीय । ६ अजस्रं [ निरन्तरः ] अस्खलित इत्यर्थः । ७ व्याधः ।
अध्य०२ ॥११६॥