SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 8 ।। ५८॥ चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसबिधौ ॥ नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ॥ ५९॥ ज्ञात्वाऽथाड | वधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः ॥ क्रोधाध्मातो देशयुक्त-मघाक्षीन्मङ्घ तत्पुरम् ॥ ६० ॥ ततोरण्यमभूद्देश-भूमौ दण्ड उत्तराध्य-x किभूपतेः ।। अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुद्धैः॥६१॥ एकोनपञ्चशतसाधुवरैरवार्य-वीर्यथा वधपरीषह एष सोढः!॥ M ॥१९॥ यनस्त्रम् ॥११४॥ सहस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२ ॥ इति वधपरीषद सपरिवारस्कन्दकर्षिकथा ॥१३॥ परैरमिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाहमूलम्-दुक्करं खलु भो निच्चं, अणगारस्स भिक्खुणो। सव्वं से जाइअंहोई, नत्थि किंपि अजाइ॥२८॥ it व्याख्या-'दुष्करम्' दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेष द्योतयति, 'भो' इत्यामन्त्रणे, 'नित्यम्' सर्वकालं यावज्जीवमित्यर्थः, 'अनगारस्य' भिक्षोः । किं तदुष्करमित्याह-यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किश्चिदन्त-5 शोधनादिकमप्ययाचितमिति सूत्रार्थः ॥२८॥ ततश्चमूलम्-गोअरग्गपविट्ठस्स, पाणी नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥ २९॥ है व्याख्या-गोचरो भिक्षाचर्या, तस्याग्रं गोचराग्रं, एषणा शुद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मनेरिति गम्यं, 'पाणिः' हस्तो "नो" नैव सुप्रसारका सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा परः प्रतिदिनं प्रार्थयितुं शक्यते ? उत्तरस्य 'इति' शब्दहै स्यात्र योगादित्यतो हेतोः 'श्रेयान' प्रशस्यो 'अगारवास' गार्हस्थ्य, तत्र हिन कोऽपि प्रायते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य , दीक्षाम् । AAAAल्स
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy