________________
अध्य
प्राप्य कैवल्य-सुखं ते लेमिरे क्रमात् ॥ ४२ ॥ (युग्मम् ) द्रुतं हतेषु तेनैवं, न्यूनपञ्चशतर्षिषु ॥ एकं क्षुल्लकमुद्दिश्य, पालकं उत्तराध्ययनसूत्रम्
स्कन्दकोऽवदत् ॥ ४३ ॥ अनुकम्प्यमिमं बालं, पीब्यमानं निरीक्षितुम् ॥ नाहं शक्ष्यामि नियतं, पूर्व पीडय मां ततः॥४४॥ तच्छुत्वा पालकस्तस्य, भूरि दुःखविधित्सया ॥ गुरोः पश्यत एव द्राक्, प्राक् तं बालमपीडयत् ॥४५॥ शुक्लध्यानमुधाऽऽसारेशान्तकर्महुताशनः ॥ बालः सोऽपि महासत्चो, महानन्दमविन्दत ! ॥ ४६॥ तद्वीक्ष्य स्कन्दकाचार्य, ऋद्धोऽन्तर्ध्यातवानिति ।। अनेन सपरीवारः, पापेनाऽसि विनाशितः!॥४७॥ क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः॥ निग्राह्य एव पापोऽसौ, | तन्मया गर्वपर्वतः ॥ ४८ ॥ अयं भूपोऽपि निग्राह्यो-स्मद्विनाशनिबन्र्धनम् ॥ उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि !
॥४९॥ तदुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् ॥ तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥ ५० ।। इत्थं कृतनिदानः स, | पीडितस्तेन दुर्धिया ।। मृत्वा वहिकुमारेषु, सुरोऽभूत्परमर्द्धिकः ॥५१॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् ॥ कुतो हेतोः पुरीमध्ये,न दृश्यन्तेऽद्य साधवः! ।। ५२ ॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् ॥ रक्ताम्यक्तं कर इति, जगृहे गृध्रपक्षिणा ॥ ३॥ तद्रजोहरणं च द्राग्, भवितव्यनियोगतः ॥ पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ॥५४॥ तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् ।। काम्बलं खण्डमद्राक्षी-भ्रातुः प्रव्रजतोऽर्पितम् ॥ ५५॥ चिह्वेन तेन च ज्ञात्वा, सोदेरादीन मुनीन् हतान् ॥ मह2 तीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥ ५६॥ रे साधुद्विष्ट ! पापिष्ठ !, विनङ्ख्यत्यधुना भवान् ॥ महर्षीणां सुराणां च नह्यवज्ञा शुभावहा! ।।५७॥ इत्युदिर्येति दध्यौ चा-ऽधुनाऽहं व्रतमाददे। अलं संसारवासेना-ऽमुना दुःखौघदायिना!
1 आसारो मेषः । २ बहिनः ३ मोक्षम् । ४ कारणम् । ५ जनपदे (देशे) भवाः । ६ रुधिरलिप्तम् । • बान्धवादिन् ।
HUA4%B5%