________________
उचराज्य
यनसूत्रम् ॥१०९॥
निष्कलङ्कमपालयत् ॥ ४८ ॥ अस्मत्स्वजनहन्ताऽसौ दुष्टो दुष्कर्मदूषितः ॥ धूर्तो घत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥ ४९ ॥ इत्याद्यैर्बहुलोकोक्कै - राक्रोशैस्ताडनैस्तथा ॥ स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ ५० ॥ [ युग्मम् ] " मन्निन्दया यदि जनः | परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे || श्रेयोऽर्थिनो हि मनुजाः परतुष्टिहेतो - दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ ५१ ॥ " किश्च " अक्कोसहणणमारण- घम्म भंसाण बालसुलहाणं || लाभं मण्णइ धीरो, जहुतराणं अलाभंमि ॥ ५२ ॥ " इति ध्यायन् स षण्मासीं सोढाक्रोशपरीषदः ॥ कृतकर्मक्षयः प्राप, केवलज्ञानमुज्ज्वलम् ।। ५३ ।। ततश्विरं स प्रतिबोध्य भव्यान्, मुक्तिं ययावर्जुनमालिसाधुः ॥ एतद्वदाक्रोशपरीषहोन्यै- रपि क्षमाटयैः श्रमणैर्विषद्यः ॥ ५४ ॥
इत्याक्रोशपरीषहेऽर्जुनमालिकर्षिकथा ॥ १२ ॥
अथ कश्चिदाक्रोश मात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीषदमाह
मूलम् - हओ न संजले भिक्खु, मर्णपि न पओसए । तितिक्खं परमं नच्चा, भिक्खुधम्मं विचिंत ॥२६॥
व्याख्या -' इतः' यष्टथादिभिस्ताडितः 'न सज्ज्वलेत्' कायतः कम्पन प्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादिना ज्वलन्तमिवात्मानं नोपदर्शयेद्भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपाद्विकृतं कुर्वीत, किन्तु, 'तितिक्षाम्' क्षमां 'परमाम्' धर्मसाधनं प्रति प्रकर्षवतीं 'ज्ञात्वा' अवगत्य 'भिक्षुधर्मम्' यतिधर्म क्षान्त्यादिरूपं वस्तुस्वरूपं वा 'विचिन्तयेत्' भावयेच्च क्षमामूल एव मुनिधर्मो, यद्य मन्निमित्तमयं कर्मोपचिनोति, सोऽपि ममैव दोष इति नैनं प्रति कोप उचित इति सूत्रार्थः ।। २६ ।।
१ आक्रोश सहन मारणधर्म-अंशानां बालसुलभानां । लाभं मन्यते धीरः यथोत्तराणामलाभे ।
छाय
अध्य०२
||॥१०९॥