SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उचराज्ययनसूत्रम् ॥१०८॥ भ्राममविश्रामं, यक्षः श्रान्तोऽभवञ्चतः न तु तं द्रष्टुमैशिष्ट, दुर्दृष्टयार्क मुलूकवत् ॥ ३२ ॥ आदाय मुद्गरं मुक्त्वाऽर्जुनं यक्षोऽगमततः । अपि देवबलाद्धर्म- बलमेव विशिष्यते ! | ॥ ३३ ॥ मुक्तस्तेनार्जुनः पृथ्व्यां, पपात च्छिन्नशांखिवत् । उत्तस्थौ च क्षणादङ्गं, मोटयन् गतनिद्रवत् ॥ ३४ ॥ किमकार्ष १ क स्थितोऽस्मि ?, का दशा मम विद्यते १ ॥ इति स ज्ञातवान्नैव, निद्रावस्थानुभूतवत् ।। ३५ ।। सोऽथाप्राक्षीत्स्वस्वरूपं, कृतोत्सर्ग सुदर्शनम् ॥ उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ।। ३६ ।। सर्व तत्पूर्ववृत्तान्तं तस्मै सम्यग् जगाद च । तच्छ्रुत्वा जातनिर्वेदोऽर्जुनश्चिन्तितवानिति ॥ ३७ ॥ अहो ! अज्ञानिना घोरं, कर्मेदं नरकप्रदम् ! ॥ मया कृतमिति ध्यायन् सोऽपृच्छदिति तं पुनः ॥ ३८ ॥ किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुदर्शन ! ॥ सोऽम्यधाच्छ्रीमहावीरं वन्दनार्थ ब्रजाम्यहम् ॥ ३९ ॥ तच्छ्रुत्वेत्यर्जुनोऽवादी - द्वन्दितुं परमेश्वरम् || अहमप्यागमिष्यामि, त्वया सह | महामते ! ॥ ४० ॥ ततस्तेन समं दृष्टः, श्रीमहावीरसन्निधौ । अगात्सुदर्शनः स्वामि-दर्शनोत्सुकदर्शनः ॥ ४१ ॥ श्रीवर्द्धमानतीर्थेश - पादपद्मौ प्रणम्य तौ ॥ सम्यक् शुभ्रुवतुर्धर्म-देशनां क्लेशनाशिनीम् ॥ ४२ ॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदर्जुनः ॥ स्वामिन् ! कथं विशुद्धिर्मे, भवेद्बहुलपाप्मः || ४३ ॥ अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि । तर्हि संयममादाय, तपस्तप्यस्त्र दुस्तपम् ॥ ४४ ॥|| मलं स्वर्णगतं वह्नि - ईसः क्षीरगतं जलम् ॥ यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः || ४५ ॥ यथाऽम्बुदों विलीयन्ते, प्रचण्डपवनाऽऽहताः । तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ॥ ४६ ॥ तन्निशम्यार्जुनः स्वामि-समीपे ॥ व्रतमाददे निर्जरार्थ व्यहार्षीच्च, पुरे राजगृहे सदा ॥ ४७ ॥ निरन्तरं षष्ठतपः कुर्वन् सौम्यसुधाम्बुद्धिः ॥ साध्वाचारं च सकलं, १ घुकवत्। २ वृक्षवत् । ३ खेदः ४ पापिनः । ५ मेवाः । ६ समता । AAJPU अच्य०२ |॥१०८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy