________________
उत्तराध्यपनलम्
इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, "तुसिणीओत्ति" तूष्णींशीलोन कोपात्परुषभाषी। 'उपेक्षेत' अवधीरयेत
अप०२ प्रक्रमात्परुषाभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥२५॥ दृष्टान्तश्चात्र तथाहि
२०६॥ अभूत्पुरे राजगृहे, गृहे निःशेषसम्पदाम् ।। मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ॥ १ ॥ यक्षो मुद्गरपाण्याह्वः पुराद्राजगृहाबहिः॥ अर्जुनस्याराममार्गे-ऽभवत्तद्गोत्रदेवता ॥२॥ कुमुमैर्मदुरामोद-प्रमोदितजगजनैः ॥ तं यक्षमर्जुनो भूरि-भक्त्याऽपूजयदन्वहम् ॥ ३ ॥ स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति ॥ पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ । ॥ ४ ॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः॥ यक्षवेश्मस्थिताः प्रेक्षा-मासुः षट् कामिनो नराः॥ ५॥ असौ सौन्दर्यवसति-वनितार्जुनमालिनः॥ गृह्यतामिति जल्पन्तो, दूतं ते जगृहुश्च ताम् ॥ ६॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् ॥ यक्षस्याग्रे बुभुजिरे, ते सर्वेऽपि पुनः पुनः॥७॥ तदा च यक्षपूजार्थ, तत्रागादर्जुनोऽपि हि ॥ तचायान्तं विलोक्यैवं, स्कन्दश्रीस्तान भाषत ॥ ८ ॥ आगच्छत्यर्जुनोऽसौ तत्किं मां यूयं विमोक्ष्यथ ? ॥ ततस्तेऽचिन्तयन्नून --मेतस्याः प्रियमस्त्यदः ॥९॥ वराकान्मालिकादस्मा–नास्माकं भीरु ! भीरिति । ब्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ।। १०॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत
एव हि ॥ सिषेविरे ते तत्कान्ता-महम्पूर्विकया मुहुः ॥ ११ ॥ स्वभायाँ भुज्यमानां तै-वीक्ष्याऽचिन्तयदर्जुनः ।। एनं यक्ष पुष्प5. पुजैः पूजयाम्यहमन्वहम् ॥ १२॥ अद्य त्वस्यैव पुरतः, प्रामोम्येतां विडम्बनाम् तनिश्चितमिदं नैच, यक्षः कोप्यत्र विद्यते ॥१३॥ यदि चात्र भवेद्यक्ष-स्तदासौ मां स्वसेवकम् ॥ नैवेदानीमुपेक्षेत, पीब्यमानमनाथवत् ॥ १४ ॥ घ्यायन्तमिति तं ज्ञात्वा, यक्षस्त
१ कठोरमाषी । २ मनोहरगन्धेन मानन्दितजगज्जनैः । । अहं पूर्वोऽहं पूर्व इत्यभिधानं यत्रेति तथा।
CASH