________________
उत्तराज्ययसूत्रम्
445-
ELECAUSAGE+%9C
सद्गुरुबिन्द-निदानी लप्स्यसे क्षयम् ! ज्वोलाजिहं ज्वलद्रुप-माक्रामन् शलभो यथा ॥४५॥ समतारसपीयूष-कुण्डं यद्यपि सूरयः। शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ॥४६॥ तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! ॥ अधुना तदवज्ञाया, दर्शयामि
अध्य०२
५१.०॥ द्रुतं फलम् ॥ ४७॥ तच्छुत्वा जातभीदत्तो, निपत्य गुरुपादयोः॥ स्वमन्तुं क्षपयामास, शरणीकृतनांश्च तान् ।। ४८ ॥ गुरवोऽपि जगुर्वत्स ! मामैषी स्ति ते भयम् ॥ उपशान्ता ततो देवी, तानत्वाऽगानिजास्पदम ॥ ४९ ॥ नवभागविहाराद्यां, गुरुणोक्तां निजक्रियाम् ।। श्रुत्वा दत्तोऽपि निश्शको, गुरुभक्तोऽभवद् भृशम् ॥५०॥ यथा जरित्वेऽप्यहिष्ट चर्या-परीपहं सङ्गमसूरिरेवम् ।। तथा 8 मुनीन्द्रः सकलैः स सह्यो, नीवृत्पुरादिप्रतिबन्धमुक्तैः ॥५१॥ इति चर्यापरीषहे सङ्गमाचार्यकथा ॥९॥
यथा च प्रामादिष्वप्रतिबद्धन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिप्वप्रतिबद्धेन सद्य इति तमाहमूलम्-सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुकुओ निसीएज्जा, न य वित्तासए परं ॥ २० ॥
व्याख्या-श्मशाने प्रतीते, 'शून्यागारे वा' शून्यगृहे, 'वृक्षमूले वा' वृक्षाधोभूभागे, एकक उक्तरूपः, 'अकुत्कुचः' दुष्टचेष्टारहितो 'निषीदेव' उपविशेत् । 'न च' नैव वित्रासयेत् , 'परम्'अन्यं मनुष्यादिकं, अयं भावः-श्मशानादौ एककोऽपि भूरिभैरवो. | पसर्गाद्युपलम्मेऽपि न स्वयं विभीयात् , न च विकृतस्वरशरीरविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः ॥ २० ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यमित्याहमूलम्-तत्थ से चिढमाणस्स, उवसग्गाभिधारए । संकाभिओ न गच्छिज्जा, उहित्ता अण्णमासणं ॥२१॥
१ अग्निम् । २ पतः ।
कर