________________
उत्तराध्य
यनसूत्रम् ॥९८ ॥
| युक्तमित्यस्था – स्पार्श्वस्थे स कुटीरके ॥ ११ ॥ पश्चाद्गत्वा रिपार्श्वे, सोऽनमत्तान्निरादरः । साधुसौख्यविहारादि-वार्त्ता तैरप्यपृ|च्छयत ॥ १२ ॥ दत्तोऽपि सकलं सूरि- पृष्टं प्रोचे यथातथम् || मिक्षाकाले च भिक्षार्थ, जगाम सह सूरिभिः ॥ १३ ॥ दत्तसाधु सहादाय, सङ्गमस्थविरा अपि ॥ निस्सङ्गाः पर्यटन्ति स्म, प्रोच्चनीचकुलेषु ते ॥१४॥ कालदौःस्थ्यादटन्तोपि, नापुस्ते भैक्ष्यमुत्तमम् ॥ | लेभिरे प्रान्तमैक्ष्यं तु, स्वल्पं स्वल्पं क्वचित् क्वचित् ॥ १५ ॥ ततो दत्तमुनिर्मैक्ष्यं, तथाविधमनाप्नुवन् । कोपाविष्टो बभूवान्त- दुष्ट| चैवमचिन्तयत् ॥ १६ ॥ भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् ॥ सश्रद्धश्राद्धगेहानि, न दर्शयति मे पुनः ॥ १७ ॥ सूरयोपि तदाकूतं ज्ञात्वा कोपेङ्गितादिभिः ॥ तत्तुष्टिकारिभिक्षार्थ - मिभ्यश्रेष्ठिगृहं ययुः ॥१८॥ दुष्टरेवतिका सञ्ज्ञ - व्यन्तरीभिरुपद्रतः । तस्य च श्रेष्ठिनः पुत्रो, रुदन्नासीदहर्निशम् ॥ १९॥ अगाच्च रुदतस्तस्य षण्मासी न तु केचन ॥ उपायाः प्राभवंस्तत्र, मातापित्रादिकारिताः ||| २० || गत्वा तस्य शिशोः पार्श्वे, कृत्वा चप्पुटिकाध्वनिम् । वत्स ! मारुदिहीत्यूचु-स्तदा सङ्गमसूरयः ॥ २१॥ तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भयविह्वलाः ॥ आशु नेशुः शिशुरपि, न रुरोद ततः परम् ॥ २२ ॥ तद्वीक्ष्य मुदितः श्रेष्ठी, मोदकैस्तान्न्यमन्त्रयत् ॥ | हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ॥२३॥ दत्तायादापयश्चित्त- मोदकांस्तांथ मोदकांन् ॥ सूरिमुख्याः पुननैक-मपि तं जगृहुः स्वयम् ||२४|| भ्रमन्मया समं पूर्णा -ऽऽहारो मा खिद्यतामसौ ध्यात्वेति वसतिं गन्तुं व्यसृजन् गुरवोऽथ तम् ॥ २५ ॥ | विशिष्टगृहमेकं मे, गुरवो दर्शयंश्विरात् ॥ मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् स्वयम् ॥ २६ ।। चिन्तयमिति दचर्षि - जमामोपाश्रयं निजम् ॥ स्वयं शठो हि सरल-मप्यन्यं मन्यते शठम् ॥२७॥ आचार्यास्तु चिरं भ्रान्त्वा, गृहीत्वा प्रान्तभोजनम् ॥
१ अभिप्रायम् । २ यभावादिभिः ।
अध्य०२ ॥९८ ॥