________________
उचराज्ययनसूत्रम् ॥९७॥
मूलब- असमाणा चरे भिक्खू, नेअ कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिव्व ॥ १९ ॥
ब्वाख्या – 'असमानः' असदृशो गृहस्थैः सहाश्रयमूर्च्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना 'चरेत्' विहरेत् 'भिक्षुः ' मुनिः कथमेतत्स्यादित्याह - नैव कुर्यात्परिग्रह, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह - 'असंसक्तः' असम्बद्धो 'गृहस्थैः' गृहिमिः, 'अनिकेतः' गृहरहितः 'परिव्रजेत्' सर्वतो विहरेत्, गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ १९ ॥ आख्यानञ्चात्र, तथाहि
अभवन् वनाsभोगे - भासनाम्भोजपाणयः । सूरयः सङ्गमाङ्खाना, जिनाज्ञापालनोद्यताः || १ || उत्सर्गश्चापवादश्च विदन्तस्ते यथास्थितम् | क्षीणजङ्घा बलास्तस्थुः, पुरे कोल्लकिराभिधे || २ || एकदा तत्र दुर्भिक्षे, सञ्जाते गच्छसंयुतम् ॥ सिंहाचार्य स्वशिष्यं ते, दूरदेशे व्यहारयन् ॥ ३ ॥ स्वयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते । विजहुर्मासकल्पादि - विधिना विधिवेदिनः ||१४|| क्षीणजङ्घावलत्वात्ते, तत्रस्था अपि न व्यधुः || प्रतिबन्धं पुरश्राद्ध - कुलशय्यासनादिषु ॥ ५ ॥ प्रकृष्टांस्तद्गुणान् वीक्ष्य, पुराधिष्ठा यिका सुरी ॥ तेषु भक्ति दधौ प्राज्यां, भेजे तांश्च दिवानिशम् ।। ६ ।। वर्षान्तरे च तत्रागात्, प्रहितः सिंहसूरिणा ॥ सङ्गमाचार्य शुद्धयर्थ, तच्छिष्यो दत्तसज्ञकः ॥ ७ ॥ यत्र स्थितैस्तैराचायें - गच्छः प्रस्थापितोऽभवत् । ते तत्रैवालयेऽभूवं- स्तदायाताः पुनः | क्रमात् ॥ ८ ॥ तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदधशिरोमणिः ॥ उत्सर्गेकरुचिर्दत्त - साधुरेवं व्यचिन्तयत् ॥ ९ ॥ तिष्ठन्तोऽत्रैव दृश्य - न्ते यदमी सूरयस्ततः ॥ मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ॥ १० ॥ तदमीभिः सहैकत्र, ममोद्युक्तविहारिणः ॥ स्यातुं न
१ आभोगः सम्पूर्णः । २ मुर्खेषु अग्रेसरः ।
44+%2%
अध्य०२ ॥९७॥