________________
वंदित्वाऽवदत्, भो मरिचे ! यावंतो लाभास्ते त्वयैव लब्धाः यतस्त्वं तीर्थंकरो वासुदेवश्चक्री च । भविष्यसि, अहं च तव पारिवाज्यं न वंदे किंतु त्वं घरमतीर्थकरो भविष्यसीति वंदे, इति पुनः २
स्तुत्वा भरतः स्वस्थानं गतः। B मरीचिरपि तच्छ्रुत्वा हर्षोद्रेकात्रिपदी आस्फोट्य नृत्यन्निदं अवोचत् । यतः-"प्रथमो वासुदे
वोऽहं, मूकायां चक्रवर्त्यहं । चरमस्तीर्थराजोऽहं, ममाहो ! उत्तम कुलम् ॥१॥ आद्योऽहं वासुदे-16 वानां, पिता मे चक्रवर्तिनाम् । पितामहो जिनेंद्राणां ममाहो ! उत्तमं कुलम् ॥ २॥” इत्थं च 81 मदकरणेन नीचैर्गोत्रं बद्धवान्। यतः-" जाति १ लाभ २ कुलै ३ श्वर्य ४ बल ५ रूप ६ तपः ७ श्रुतैः ८ । कुर्वन्मदं पुनस्तानि, हीनानि लभते जनः ॥३॥” ततो भगवति निर्वृते प्राग्वज्जनान् । प्रतिबोध्य साधूनां शिष्यान् कुर्वन् तैः सह विहरति ।
एकदा च ग्लानीभूतस्य तस्य न कोऽपि वैयावृत्त्यं करोति, तदा स चिंतितवान् , अहो एते |बहुपरिचिता अपि परकीया एव निर्ग्रथाः! ततो यदि नीरोगो भवामि तदैकं वैयावृत्त्यकरं शिष्यं ।