________________
कल्पसूत्र
सुबोधि. ॥४२॥
ROSESSISESEISSAA*
करोमीति क्रमेण च नीरोगो जातः, एकदा कपिलनामा राजपुत्रो देशनां निशम्य प्रतिबुद्धो द्वितीयः मरीचिना प्रोक्तो भो कपिल! याहि साधुसमीपे चारित्रं गृहाण, तदा कपिलेन प्रोक्तं खामिन् ! भवदर्शने एव व्रतं ग्रहीष्यामि, तदा मरीचिरुवाच भो कपिल ! श्रमणास्त्रिदंडविरता अहं तु त्रिदंडवानित्यादि सर्व स्वरूपं कथितं तथापि स बहुलकर्मा चारित्रपराङ्मुखः प्रोवाच, किं भवदर्शने सर्वथा है। धर्मो नास्ति ? तदा मरीचिना एष मम योग्यः शिष्य इति विचिंत्य उक्तं “कविला ! इत्थंपि इहयंपि" कपिल ! जैनमार्गेऽपि धर्मोऽस्ति मम मार्गेपि विद्यते इति, तत् श्रुत्वा च कपिलस्तत्पार्श्वे 2 प्रवजितः । मरीचिरपि अनेन उत्सूत्रवचनेन कोटाकोटिसागरप्रमाणं संसारं उपार्जयामास । | [" यत्तु किरणावलीकारेण प्रोक्तं " कविला ! इत्थंपि इहयंपित्ति” वचनं उत्सूत्रमिश्रितमिति 8 तदुत्सूत्रभाषिणां नियमादनंतः संसार इति खमतस्थापनरसिकतयेति ज्ञेयं, इदं हि तन्मतं-उत्सूत्र भाषिणस्तावन्नियमादनंत एव संसारः स्यात् , यदि च इदं मरीचिवचनमुत्सूत्रमित्युच्यते तदा | अस्यापि अनंतः संसारः प्रसज्यते न चाऽसौ संपन्नस्तदिदं उत्सूत्रमिश्रितमिति, तच्चायुक्तं, उत्सूत्र