SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणीकुक्षौ उत्पन्न इति योगः, तच्च नीचैर्गोत्रं भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बद्धं, | तथाहि — प्रथमभवे पश्चिममहाविदेहे नयसारनामा ग्रामपतिः, स चैकदा काष्ठनिमित्तं वनं गतस्तत्र मध्याह्ने भोजनसमये सार्थभ्रष्टान् साधून् दृष्ट्वा हृष्टश्चिंतितवान्, अहो मे भाग्यं ! यदस्मिन्समये अतिथिसमागमः, ततः तेन परमप्रमोदेन साधवोऽशनपानादिभिः प्रतिलंभिताः, पश्चाद्भोजनानंतरं साधून्नत्वा उवाच, चलंतु महाभागा ! मार्ग दर्शयामि, ततो मार्गे गच्छद्भिः साधुभिर्योग्योयमिति धर्मोपदेशेन सम्यक्त्वं प्रापितः, (१) अंते च नमस्कार स्मरणपूर्वं मृत्वा द्वितीयभवे सौधर्मदेवलोके पल्योपमायुर्देवो जातः (२) ततश्युत्वा तृतीये भवे (३) मरीचिनाम्ना भरतचक्रवर्तिपुत्रो जातः, स च प्राप्तवैराग्यः श्री ऋषभदेवपार्श्वे प्रव्रजितः, स्थविरपार्श्वे एकादशांगीं अधीतश्च, एकदा च ग्रीष्मकाले तापादिपीडि तश्चितितवान्, अतिदुर्वहोऽयं संयमभारो, मया निर्वोढुं न शक्यते ! गृहे गमनं च सर्वथा अनुचितं इति ध्यात्वाऽभिनवं वेषं रचितवान्, तथाहि “श्रमणास्त्रिदंडविरता अहं तु न तथा इति मम त्रिदंडं चिह्नमस्तु । श्रमणा द्रव्यभावाभ्यां मुंडा
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy