SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ कृत्य सौधर्मेन्द्रात्मरक्षकाँस्त्रासयन् सौधर्मावतंसकविमानवेदिकायां पादं मुक्त्वा शक्रं आक्रोशयामास, ततो रुष्टेन शक्रेण जाज्वल्यमानं वजं तं प्रति मक्तं, ततोऽसौ भीतो भगवत्पादयोर्लीनस्ततो ज्ञातव्यतिकरेण इंद्रेण सहसागत्य चतुरंगुलाप्राप्तं वज्रं गृहीतं, भगवत्प्रसादान्मुक्तोसीत्युक्त्वा चमरो मुक्त इदं चमरस्योर्ध्वगमनं आश्चर्यम् ॥ ८॥ ___ अट्रसयत्ति-एकस्मिन्समये उत्कृष्टावगाहनावंतोऽष्टाधिकशतमिता न सिध्यति ते च अस्यां अवसर्पिण्यां सिद्धाः॥ यतः ॥ "वृषभो १ वृषभस्य सुता ९९, भरतेन विवर्जिताश्च नवनवतिः । अष्टौ ८ भरतस्य सुताः, शिवं गता एकसमयेन । १।” ९॥ __ असंजयाणत्ति-असंयता असंयमवंतः आरंभपरिग्रहप्रसक्तास्तेषां पूजा, संयता एव सर्वदा पूज्यंते, अस्यां अवसर्पिण्यां तु नवमदशजिनयोरंतरे असंयतानां अपि ब्राह्मणादीनां पूजा प्रवृत्ता इति आश्चर्यम् ॥१०॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy