SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ धातकीखंडभरते अपरकंकाराजधानीप्रभोः पद्मोत्तरस्य स्त्रीलुब्धस्य पुरतो रूपवर्णनं कृतं, तेनापि 8 खमित्रदेवेन द्रौपदी खगृहं आनायिता । इतश्च पांडवमात्रा कुंत्या विज्ञप्तेन कृष्णेन द्रौपदीगवेषण-14 व्यग्रेण नारदमुखादेव स समाचारो लब्धस्ततः सोऽपि आराधितसुस्थितदेवताप्रदत्तमार्गो द्विलक्षयोजनायाम लवणसमुद्रं अतिक्रम्य अपरकंकां गतस्तत्र च तर्जितपांडवं पद्मोत्तरं नरसिंहरूपकरणेन । विजित्य द्रौपदीवचसा जीवंतं मुक्त्वा च द्रौपद्या सह पश्चाद्वलितः, वलमानश्च शंखं आपूरितवान् , II तच्छब्दं श्रुत्वा च तत्र विहरमानमुनिसुव्रतजिनवचनेन कृष्णं आगतं ज्ञात्वा मिलनोत्सुकः कपि-13 लवासुदेवोऽपि जलधितटमुपेत्य शंखं आपूरितवान् , ततो मिथः शंखशब्दौ मिलितो, ततोऽस्यां | अवसर्पिण्यां कृष्णस्य अपरकंकागमनं आश्चर्यम् ॥ ५॥ | अवयरणं चंदसूराणंति-यत् कौशांब्यां भगवतः श्रीवर्धमानखामिनो वंदनार्थं मूलविमानेन सूर्याचंद्रमसौ उत्तीर्णौ तदाश्चर्यम् ॥ ६॥ हरिवंसकुलुप्पत्तित्ति-सा चैवं, कौशांब्यां नगर्या सुमुखनाम्ना राज्ञा वीरकस्य शालापते
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy