________________
कल्पसूत्र -
सु बोधि०
॥३८॥
तस्यास्तापेन षण्मासीं यावल्लोहितवचबाधां अनुभूतवान् ! तदेवं नामस्मरणशमितसकलदुःखस्य | भगवतोप्येवं यदुपसर्गस्तदाश्चर्यम् ॥ १ ॥
गब्भहरणंति–गर्भस्य हरणं उदरांतरे मोचनं, तत्कस्यापि जिनस्य न भूतपूर्वं श्रीवीरस्य जातं |इत्याश्चर्यम् ॥ २ ॥
इत्थीतित्थंति - तीर्थंकरा हि भगवंतः पुरुषोत्तमा एव भवंति, अत्रावसर्पिण्यां च मिथिलापतिकुंभराजस्य पुत्री मल्लिनाम्नी एकोनविंशतितमजिनत्वेनोत्पन्ना तीर्थं प्रवर्तितवतीति आश्चर्यम् ॥ ३ ॥ अभावियापरिसत्ति-अभाविता पर्षत्, भगवतो हि देशना कदापि निष्फला न भवति अत्र च समुत्पन्नकेवलेन श्रीवर्धमानखामिना प्रथमसमवसरणे देशना दत्ता न च तया कस्यापि विरति - परिणामो जात इत्याश्चर्यम् ॥ ४ ॥
कण्हस्सत्ति - कृष्णस्य नवमवासुदेवस्य द्रौपदीनिमित्तं अपरकंकागमनं आश्चर्य, तच्चैवं पुरा किल पांडवभार्यया द्रौपद्या असंयतत्वान्नारदस्य अभ्युत्थानादि न कृतं, तेन च रुष्टेन तस्याः कष्ठे पातनार्थं
द्वितीयः
क्षणः
॥२॥
રા