________________
तत्र गत्वा एनं अर्थं तस्मै निवेदय, त्वां च वृद्धवणिजमिव हितोपदेशकत्वाज्जीवंतं रक्षिष्यामीति श्रुत्वा भीतोऽसौ मुनिर्भगवदग्रे सर्वं व्यतिकरं कथितवान् ततो भगवता उक्तं, भो आनंद ! शीघ्रं त्वं गौतमादीन्मुनीन् कथय यत् एष गोशाल आगच्छति न केनाप्यस्य संभाषणं कर्तव्यं इतस्ततः सर्वेऽपसंरंतु, ततस्तैस्तथाकृते गोशाल आगत्य भगवंतं अवादीत् भो काश्यप ! किमेवं वदसि ? यदयं गोशालो मंखलिपुत्र इत्यादि, स तव शिष्यस्तु मृतः, अहं तु अन्य एव परीषहसहनसमर्थं तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि, एवं च भगवत्तिरस्कारं असहमानौ सुनक्षत्रसर्वानुभूती अनगारौ मध्ये उत्तरं कुर्वाणौ तेन तेजोलेश्यया दग्धौ स्वर्गं गतौ । ततो भगवता उक्तं, भोगोशाल ! स एव त्वं नाऽन्यो मुधा किं आत्मानं गोपायसि ? नह्येवं आत्मा गोपयितुं शक्यः ! यथा कश्चिच्चौर आरक्षकैर्दृष्टोऽगुल्या तृणेन वा आत्मानं आच्छादयति स किं आच्छादितो भवति । एवं च प्रभुणा यथास्थितेऽभिहिते स दुरात्मा भगवदुपरि तेजोलेश्यां मुमोच सा च भगवंतं त्रिः प्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधा वेदना अनुभूय सप्तमरात्रौ मृतः !! भगवानपि