________________
कल्पसूत्र
क्षण:
सुबोधि० ॥३७॥
॥२॥
XESTEXANASANAIS
नामा अस्माकं एव शिष्यीभूतोऽस्मत्त एव किंचिबहुश्रुतीभूतो मुधा खं जिनं ख्यापयति, ततः द्वितीयः सर्वतः प्रसिद्धां इमां वार्ता आकर्ण्य रुष्टो गोशालो गोचरचर्यागतं आनंदनामानं भगवच्छिष्यं । जगाद, भोआनंद ! एकं दृष्टांतं शृणु, यथा-केचित् वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटाः परदेशं गच्छंतोऽरण्यं प्रविष्टास्तत्र जलाभावेन तृषाकुला जलं गवेषयंतः चत्वारि वल्मीकशिखराणि पश्यंतिस्म, ततस्तैरेकं शिखरं स्फोटितं, तस्माद्विपुलं जलं निर्गतं, तेन जलेन गतपिपासाः पयःपात्राणि पूरितवंतस्तत एकेन वृद्धेनोक्तं, सिद्धं अस्माकं समीहितं, अथ मा। 8 स्फोटयंतु द्वितीयं शिखरं इति निवारिता अपि द्वितीयं स्फोटयामासुस्तस्माच सुवर्णं प्राप्तवंतस्तथैव । वृद्धवारिता अपि तृतीयं स्फोटितवंतस्तस्माद्रत्नानि प्राप्य तथैव बहुवारिता अपि अपि स्फोटयंतिस्म, तस्माच्च प्रादुर्भूतेन दृष्टिविषसर्पण सर्वेपि खदृष्टिपातेन पंचत्वं प्रापिताः, स हितोपदेशको वणिक् तु न्यायित्वात् आसन्नदेवतया स्वस्थाने मुक्तः, एवं तव धर्माचार्योंपि एतावत्या ॥२॥ वसंपदा असंतुष्टो यथातथाभाषणेन मां रोषयति तेनाहं स्वतपस्तेजसा तं धक्ष्यामि, ततस्त्वं शीघ्र
रिता अपि लोभांधा