________________
भूतः अणंताहिंति अनंतासु उत्सर्पिण्यवसर्पिणीषु व्यतिक्रांतासु ईदृशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यां | अवसर्पिण्यां ईदृशानि दश आश्चर्याणि जातानि । यथा-"उवसग्ग १ गब्भहरणं २, इत्थीतित्थं ३ अभाविआ परिसा ४ । कण्हस्स अवरकंका ५, अवयरणं चंदसूराणं ६॥१॥ हरिवंसकुलुप्पत्ती ७, चमरुप्पाओ अ ८ अट्ठसयसिद्धा ९ । अस्संजयाण पूआ १०, दसवि अणंतेण कालेण ॥२॥"3 व्याख्या- उवसग्गत्ति-उपसर्गा उपद्रवाः, ते हि श्रीवीरवामिनः छद्मस्थावस्थायां अग्रे वक्ष्यमाणा बह-18 वोऽभवन् , किंच अस्य भगवतः केवल्यवस्थायां अपि वप्रभावप्रशमितसर्वोपद्रवस्यापि खशिष्याभासेन है गोशालकमात्रेणापि उपद्रवः कृतस्तथाहि ।
एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, गोशालकोऽपि जिनोहमिति लोके ख्याफ्यन् तत्रागतः, ततो द्वौ जिनौ श्रावस्त्यां वर्त्तते इति लोके प्रसिद्धिर्जाता, तां श्रुत्वा श्रीगौतमेन भगवान् पृष्टः, स्वामिन् ! कोऽसौ द्वितीयो जिन इति खं ख्यापयति ? श्रीभगवानुवाच, गौतम ! नायं जिनः, किंतु शरवणग्रामवासी मंखलिसुभद्राभ्यां गोबहुलब्राह्मणगोशालायां जातत्वात् 'गोशाल
कल्प
.
७