SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ BHARASACRORE प्रपाप्रदातॄणामितियावत् उपदेशात् व्याख्यानशिक्षातो मध्यस्थतया रागाद्यभावत्वतः, श्रीदेवसूरिभिः श्रीवीरचन्द्रसूरीणां निजदेशनावशलब्धनिर्मलकीतीनां शिष्यमात्रैर्बिनेयगुणेषद्गुणैर्विरचितं दृब्धमेतदिदं सिद्धान्तयुक्तियुक्तं राद्धान्तयुक्तिसहितं जीवस्यात्मनो भव्यस्य वानुशासनं बोधकं विमलं निर्मलम् । तथेति किञ्च सकलागमपरमार्थकनककषपट्टलब्धोपमैनिःशेषसिद्धान्ततत्त्वचामीकरतत्परीक्षादक्षोपलप्राप्तोपमानैः सकलगुणरत्नरोहणगिरिभिर्निखिलगुणमाणिक्यरोहणशैलैर्जिनदत्तसूरिभिरेतन्नाम कैस्सप्तगृहनिवासिभिरितियावत् । शोधितं निर्दोष कृतमेतज्जीवानुशासनम्, अन्येषां महेन्द्रसूरिप्रमुखाणां सूरिप्रवराणामाचार्यवर्याणां सम्मतमभिप्रेतं, किश्चापरं यदत्र प्रकरणे अनागमिकमुत्सूत्रं तद्गीतार्थाः सिद्धान्तविदः शोधयन्तु निर्मलीकुर्वन्तु इति गाथाचतुष्टयार्थः ॥ खमतिकल्पितमिदं प्रकरण ६ मिति मुग्धमतेः सन्देहः स्यात्तन्निराकरणार्थमाह । "समईए एत्थ नो किंपि, किंतु जं दिट्ठ कप्पववहारे । पंचकप्पे निसीहे, दसासुए पयरणाईसु ॥" व्याख्या-खमत्या निजधिषणयाऽत्र प्रकरणे नो नैव किमपि स्तोकं, किन्तु नवरं यदृष्टमवलोकितं, केष्वित्याह । कल्पव्यवहारे एतन्नामछेदग्रन्थद्वये, पञ्चकल्पनिशीथे एतदभिधानछेदग्रन्थयुग्मे, दशाश्रुते दशाश्रुतस्कन्धनामछेद
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy