SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ CACANCINNERAL तीये भवे वैताढ्यभूमौ षड्दंतः शुभ्रो हस्तिनीसहस्रभर्ता सुमेरुप्रभनामा त्वं गजराजोऽभूः, अन्यदा 31 दावानलागीतः पलायमानस्तृषितः पंकबहुलं एकं सरः प्राप्तस्तत्र चाऽज्ञातमार्गः पंके निमग्नो नीरातीराच्च भ्रष्टः पूर्ववैरिहस्तिना दंतेर्हन्यमानः सप्तदिनानि वेदनां अनुभूय सविंशं शतं आयुः समाप्य विंध्याचले रक्तवर्णश्चतुर्दतः सप्तहस्तिनीशतभर्ता हस्ती जातः, क्रमेण च दावानलं दृष्ट्वा है जातजातिस्मरणः पूर्वभवं स्मृतवान् , ततो दावानलपराभवरक्षणाय योजनपरिमितं मंडलं कृतवान्, तत्र वर्षाणां आदौ मध्ये अंते च यत्किंचित्तृणवल्यादि भवति तत्सर्वं उन्मूलयति, अन्यदा च दावाग्नेर्भीताः सर्वे वनजीवास्तन्मंडलं व्याप्तवंतस्त्वमपि शीघ्र आगत्य तत्र मंडले स्थितः, कदाचिदेह-18 कंडूयनेच्छया एकं पादं उत्पाटितवान् , उत्पाटिते च तस्मिन्पादे अन्यत्र सांकीर्ण्यपीडितः शशकस्तत्र आगत्य स्थितः, गात्रं कंडूयित्वा च पादं मुंचन् शशकं दृष्ट्वा तद्दयया साई दिनद्वयं तथैव है पादं स्थापितवान् , उपशांते च दावानले सर्वेषु जीवेषु स्वस्थानं गतेषु विलगितपादो झटिति भूमौ । पतितस्ततो दिनत्रयं क्षुधया तृषा च पीडितः कृपापरः शतवर्ष आयुः परिपाल्याऽत्र श्रेणिकधारिण्योः RRC
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy