________________
कल्पसूत्र
सुबोधि०
॥३१ ॥
रथं मार्गे आनयति, एवं भगवंतोऽपि मार्गभ्रष्टं जनं मार्गे आनयंति । अत्र च मेघकुमारदृष्टांतो यथाएकदा श्रीवीरखामी राजगृहे समवसृतस्तत्र श्रेणिकधारिण्योः सुतो मेघकुमारः प्रतिबुद्धः कथमपि पितरौ आपृच्छय अष्टौ प्रियाः परित्यज्य दीक्षां गृहीतवान्, प्रभुणा च शिक्षार्थं स्थविराणां अर्पितस्तत्र अनुक्रमेण संस्तारककरणे द्वारपार्श्वे मेघकुमारस्य संस्तारक आगतस्ततः प्रश्रवणाद्यर्थं गच्छदागच्छत्साधुपादरजोभिर्भरितः मेघकुमारः समग्रायां रजन्यां क्षणमपि निद्रां न प्राप्तश्चिंतयामास "क्क मे सुखशय्या ? क्वचेदं भूलुण्ठनम् ! कियत्कालं इदं दुःखं मया सोढव्यम् !! ततः प्रातः प्रभुमापृच्छय गृहं यास्यामीति" प्रभाते प्रभुपार्श्वमागतः प्रभुणाऽपि मधुरवचनेन आभाषितः, वत्स! त्वया निशि एवं दुद्धर्षानं कृतं परं अविचारितं एतत् नरकातिदुःखाग्रे कियदेतद्दुःखम् ? तान्यपि दुःखानि सागरोपमानि अनेकानि यावत्प्राणिना बहुशः सोढानि ! किं च "वरमग्गिंमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहिअवयभंगो, मा जीअं खलिअसीलस्स ॥ १ ॥” तथा इदं चारित्रादिकष्टानुष्ठानं महते फलाय भवति, यथा त्वयैव पूर्वभवे अनुभूतं धर्मार्थं कष्टं एतावत्फलप्रापकं अभवत् शृणु ततः पूर्वभवान्, यथा- इतस्तृ
प्रथमः
क्षणः
॥ १ ॥
॥३१॥