________________
हाद्वा ग्राह्याः, सांचयिकास्तु घृततैलगुडाख्यास्तिस्रस्ताश्च प्रतिलंभयन् गृही वाच्यो महान्कालोस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामः, स वदेत् गृहीत चतुर्मासी यावत्प्रभूताः संति, ततो ग्राह्या बाला-13 दीनां च देया न तरुणानां, यद्यपि मधु १मद्य २मांस ३ नवनीत ४ वर्जनं यावजीवं अस्त्येव, तथापि अत्यंताऽपवाददशायां बाह्यपरिभोगाद्यर्थं कदाचित् ग्रहणेऽपि चतुर्मास्यां सर्वथा निषेधः ॥ १७॥
तिलं ५, गुडं ६, महुं७, मजं ८, मंसं ९ ॥१७॥ वासावासं पजोसवियाणं
अत्थेगइयाणं एवं वृत्तपुत्वं भवति, अट्ठो भंते ! गिलाणस्स?, से अ वएज्जा वासावासं इत्यादितः पडिगाहित्तए इति पर्यंतं, तत्र अत्थेगइआणं इत्यादि-अस्ति एतदेकेषां वैयावृत्त्यकरादीनां एवमुक्तपूर्वं भवति, गुरुं प्रतीति शेषः, वैयावृत्त्यकरैर्गुरवे एवं उक्तं भवतीत्यर्थः, हे भदंत ! भगवन् ! अर्थो वर्तते ग्लानस्य विकृत्याः? इति वैयावृत्त्यकरेण प्रश्ने कृते से अ वइज्जा स