SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ अधिकमासं नांगीकुर्वते, येनाधिकमासे प्रथमं परित्यज्य द्वितीय एव मासे पुष्प्यंति, यदुक्तं आवश्यकनिर्युक्तौ - " जइ फुल्ला कणिआरंडा, चूअग ! अहिमासयंमि घुट्टमि । तुह न खमं फुल्लेडं, जइ पच्चंता करिंति डमराई ॥ १ ॥ " तथा च कश्चित् " अभिवडियंमि वीसा इयरेसु सवीसईमासो” इतिवचनबलेन मासाभिवृद्धौ विंशत्या दिनैरेव लोचादिकृत्यविशिष्टां पर्युषणां करोति तदप्ययुक्तं, येन "अभिवडियंमि वीसा ” इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा “ आसाढपुण्णिमाए पज्जोसविंति एस उस्सग्गो, सेसकालं पज्जोसविताणं अववाओत्ति” श्रीनिशीथचूर्णिदशमोदेशकवचनादाषाढपूर्णिमायामेव लोचादिकृत्यविशिष्टा पर्युषणा कर्तव्या स्वादित्यलं प्रसंगेन ॥ तत्र कल्पोक्ता द्रव्य १ क्षेत्र २ काल ३ भावस्थापना चैवम् - द्रव्यस्थापना, तृणडगलछारमल्लकादीनां परिभोगः, सचित्तादीनां च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रव्राज्यते, अतिश्रद्धं राजानं राजामात्यं च विना । अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं सोपधिकः शिष्यः (१) । क्षेत्र स्थापना, सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे च चत्वारि पंच वा योजनानि (२) । कालस्थापना, चत्वारो मासाः (३) ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy