________________
नवमः
कल्पसूत्रसुबोधि०
क्षण:
॥२७॥
॥९
अहो देवानुप्रिय ! एवं आश्विनवृद्धौ चतुर्मासककृत्यं द्वितीयाश्विनसितचतुर्दश्यां कर्तव्यं स्यात् , कार्तिकसितचतुर्दश्यां करणे तु दिनानां शतापत्त्या “ समणे भगवं महावीरे वासाणं सवीसइराए मासे वइकंते सत्तरिराइंदिएहिं सेसेहिं” इति समवायांगवचनबाधा स्यात् । न च वाच्यं चतुर्मास-11 कानि हि आषाढादिमासप्रतिबद्धानि, तस्मात्कार्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युक्तं, दिनगणनायां त्वऽधिकमासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः समवायांगवचनबाधा ? इति, यतो यथा चतुर्मासकानि आषाढादिमासप्रतिबद्धानि तथा पर्युषणाऽपि भाद्रपदमासप्रतिबद्धा तत्रैव । कर्तव्या, दिनगणनायां त्वऽधिकमासः कालचूलेल्यविवक्षणादिनानां पंचाशदेव कुतोऽशीतिवार्ताऽपि ? | न च भाद्रपदप्रतिबद्धत्वं पर्युषणाया अयुक्तं, बहुष्वागमेषु तथाप्रतिपादनात् , तथाहि-"अण्णया प-15 जोसवणादिवसे आगए अज्जकालगेण सालवाहणो भणिओ, भद्दवयजुण्हपंचमीए पजोसवणा"|| ॥२७॥ इत्यादि पर्युषणाकल्पचूर्णी, तथा “तत्थ य सालवाहणो राया, सो अ सावगो, सो अ कालगजं तं इंतं सोऊण निग्गओ अभिमुहो, समणसंघो अ, महाविभूईए पविट्ठो कालगजो, पविटेहि अ भणिों,
AGARAMA