________________
SARAIGARCAREORIA
अतिक्रमयितुं, तत्र परि सामस्त्येन उषणं वसनं पर्युषणा, सा द्वेधा, गृहस्थज्ञाता गृहस्थैः अज्ञाता च, तत्र गृहस्थैः अज्ञाता यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाऽषाढपूर्णिमायां, योग्यक्षेत्राऽभावे तु पंच २ दिनवृद्ध्या दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपंचदश्यां एव। गृहिज्ञाता तु द्वेधा, सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च, तत्र सांवत्सरिककृत्यानि-"संवत्सरप्रतिक्रांति १- ञ्चनं २ चाष्टमं तपः ३ । सर्वार्हद्भक्तिपूजा च ४, संघस्य क्षामणं मिथः ५ |॥१॥” एतत्कृत्यविशिष्टा भाद्रसितपंचम्यां एव, कालिकाचार्यादेशाच्चतुर्थ्यामपि, केवलं गृहिज्ञाता तु सा यत् अभिवर्द्धिते वर्षे चतुर्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताःस्म इति पृच्छतां गृहस्थानां पुरो वदंति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो युगांते चाऽऽषाढो वर्द्धते, नान्ये मासास्तट्टिप्पनकं तु अधुना सम्यग् न ज्ञायते, ततः पंचाशतैव दिनैः पर्युषणा युक्तेति वृद्धाः ॥ | अत्र कश्चिदाह- ननु ? श्रावणवृद्धौ द्वितीयश्रावणसितचतुर्थ्यामेव पर्युषणायुक्ता, न तु भाद्रसितचहै तुयां, दिनानां अशीत्यापत्तेः, “वासाणं सवीसइराए मासे वइकंते” इतिवचनबाधास्यादिति चेन्मैवं,
SACARRORSCOCK-40