SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ द्वे यांति तिस्रोपि, तर्जन्यंगुष्ठकांतरम् ॥११॥ येषां रेखा इमास्तिस्रः, संपूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, संपूर्णान्यन्यथा न तु । १२ । उल्लंघ्यंते च यावत्यो ऽङ्गुल्यो जीवितरेखया । पंचविंशतयो ज्ञेया| स्तावत्यः शरदां बुधैः । १३। यवैरंगुष्ठमध्यस्थै-र्विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म, दक्षिणांगुष्ठगैश्च तैः । १४ । न स्त्री त्यजति रक्ताक्षं, नार्थः कनकपिंगलम् । दीर्घबाहुं नचैश्वयं, न मांसोपचितं सुखम् १५ । चक्षुः स्नेहेन सौभाग्यं, दंतस्नेहेन भोजनम् । वपुः स्नेहेन सौख्यं स्यात्, पादस्नेहेन वाहनम् । १६ । उरोविशालो धनधान्यभोगी, शिरोविशालो नृपपुंगवश्च । कटीविशालो बहुपुत्रदारो, विशालपादः सततं सुखी स्यात् । १७ । इमानि लक्षणानि, व्यंजनानि मषतिलकादीनि च तेषां ये गुणास्तैरुपेतं, पुनः किं० ? माणुम्मात्यादि तत्र मानं जलभृतकुंडांतः पुरुषे निवेशिते यज्जलं निस्सरति यदि तज्जलं द्रोणमानं भवेत्तदा स पुरुषो मानप्राप्तः, यदि च तुलारोपितोऽर्द्ध भारमानः स्यात्तदा स उन्मानप्राप्तः । तत्र भारमानं - " षट्स - पैर्यवस्त्वेको, गुंजैका च यवैस्त्रिभिः। गुंजात्रयेण वल्लः स्याद्गद्याणे ते च षोडश । १ । पले च दश गद्याणा-स्तेषां
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy