________________
KORRASARANCS
वेश्या रागवती सदा तदनुगा षड्डी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो ! नव्यो वयःसंगमः। कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात् , तं वंदे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम्।।
रे काम ! वामनयना तव मुख्यमस्त्रं, वीरा वसंतपिकपंचमचंद्रमुख्याः । त्वत्सेवका हरिविरंचिमहेश्वराया, हा ! हा ! हताश ! मुनिनाऽपि कथं हतस्त्वम् ?॥७॥ श्रीनंदिषेणरथनेमिमुनीश्वराई-बुद्ध्या त्वया मदन रे ! मुनिरेष दृष्टः ? । ज्ञातं न नेमिमुनिजंबुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणांगणे माम् ! ॥ ८॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव ।
देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ ९॥” . अन्यदा द्वादशवर्षदुर्भिक्षप्रांते संघाग्रहेण श्रीभद्रबाहुभिः साधुपंचशत्याः प्रत्यहं वाचनासप्तकेन दृष्टिवादे पाठ्यमाने अन्येषु साधुषु उद्विग्नेषु स्थूलभद्रो वस्तुद्वयोनां दशपूर्वी पपाठ, अथैकदा यक्षा-1 BI
PRECORNOR-COM