SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ RRIGARH 452- 5345 कारेण सप्तदिनैरिति समस्तः प्रयोगो लिखितः स तु वैयाकरणैश्चिंत्यः ! संख्यया समाहारद्विगुभवनात् ] तदनु राज्ञा पुरात्सर्वबिडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिबतो बालस्योपरि बिडालिकाकारवार्गलापातेन मरणे गुरूणां प्रशंसा तस्य निंदा च सर्वत्र प्रससार, ततः कोपान्मृत्वा व्यंतरी भूयाऽशिवोत्पादादिना संघ उपसर्गयन् उपसर्गहरस्तोत्रं कृत्वा श्रीगुरुभिर्निवारितः। थेरस्सणं अज | संभूइविजयस्स माढरसगुत्तस्स स्थविरस्यार्यसंभूतिविजयस्य माढरगोत्रस्य अंतेवासी थेरे अज्जथूलभद्दे । गोयमसगुत्ते शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्रस्तस्य सम्बन्धश्चैवम्| पाटलिपुरे शकटालमंत्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो वररुचिद्विजप्रयोगापितरि मृते नंदराजेनाकार्य मंत्रिमुद्रादानायाभ्यर्थितः सन्पितृमृत्युं खचित्ते विचिंत्य दीक्षामादत्त, पश्चाच्च संभूतिविजयांतिके व्रतानि प्रतिपद्य तदादेशपूर्वकं कोशागृहे चतुर्मासिमस्थात् , तदंते च। बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैर्दुष्करदुष्करकारक इति संघसमक्ष प्रोचे, तद्वचसा च पूर्वायाताः सिंहगुहासर्पबिलकूपकाष्ठस्थायिनस्त्रयो मुनयो दूनाः, तेषु सिंहगुहा LISTENOGROASAR
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy