________________
कल्पसूत्रसुबोधि०
RA*****
॥२५॥
वली कथिता-तद्यथा-स्थविरस्य आर्ययशोभद्रस्य तुंगिकायनगोत्रस्य शिष्यौ द्वौ स्थविरौ, संभूतिवि- । जयो माढरगोत्रः (१) स्थविर आर्यभद्रबाहुश्च प्राचीनगोत्रः (२) श्रीयशोभद्रपट्टे श्रीसंभूतिविजयश्रीभद्रबाहुनामको द्वौ पट्टधरौ जातो, तत्र भद्रबाहुसंबंधश्चैवम्
प्रतिष्ठानपुरे वराहमिहिरभद्रबाहू द्विजौ प्रव्रजितौ, भद्रबाहोराचार्यपददाने रुष्टः सन् वराहो द्विजवेषमादृत्य वाराही संहितां कृत्वा निमित्तैर्जीवति, वक्ति च लोके 'क्वाप्यरण्ये शिलायां अहं सिंह-2 लग्नममंडयं, शयनावसरे तदभंजनं स्मृत्वा लग्नभक्त्या तत्र गतः सिंहं दृष्ट्वापि तस्याधो हस्तक्षेपेण
लग्नभंगे कृते संतुष्टः सिंहलग्नाधिपः सूर्यः प्रत्यक्षीभूय स्वमंडले नीत्वा सर्व ग्रहचारं ममादर्शयदिति, + अन्यदा वराहेण राज्ञः पुरो लिखितकुंडालकमध्ये द्विपंचाशत्पलमानमत्स्यपाते कथिते श्रीभद्रबाहुभिस्तस्य मत्स्यस्य मार्गे अर्धपलशोषात् सार्धेकपंचाशत्पलमानता कुंडालकप्रांते पातश्च उक्तो मिलितश्च, तथाऽन्यदा तेन नृपनंदनस्य शतवर्षायुर्वर्तने एते न व्यवहारज्ञाः! नृपपुत्रस्य विलोकनार्थमपि नागताः इति जैननिंदायां च क्रियमाणायां गुरुभिः सप्तभिर्दिनैर्बिडालिकातो मृतिरूचे, [अत्रकिरणावली
ASARK***
२५१॥