________________
सप्तमः
क्षणः
॥२४४॥
कल्पसूत्र- ज्ञातभगवनिर्वाणाः स्वस्खपरिवारपरिवृता अष्टापदपर्वते यत्र भगवच्छरीरं तत्रागत्य विधिवत्पर्युपासमा-1 सुबोधि० नास्तिष्ठति, ततः शक्रो भवनपतिव्यंतरज्योतिषिकवैमानिकदेवनंदनवनागोशीर्षचंदनकाष्ठानि आनाय्य है।
तिस्रश्चिताः कारयति, एकां तीर्थकरशरीरस्य, एकां गणधरशरीराणां, एकां शेषमुनिशरीराणां, ततः | आभियोगिकदेवैः क्षीरोदसमुद्राजलं आनाययति, ततः शक्रः क्षीरोदजलैस्तीर्थकृच्छरीरं स्नपयति, सरसगोशीर्षचंदनेनानुलिपति, हंसलक्षणं पटशाटकं परिधापयति, सर्वालंकारविभूषितं करोति, एवं अन्ये देवा गणधरमुनिशरीराणि स्नपितानि चंदनानुलिप्तानि सर्वालंकारविभूषितानि कुर्वति, ततः
शको विचित्रचित्रविराजितास्तिस्रः शिबिकाः कारयति, निरानंदो दीनमना अश्रुमिश्रनेत्रस्तीर्थक-2 इच्छरीरं च शिबिकायां आरोपयति, अन्ये देवा गणधरमुनिशरीराणि शिबिकायां आरोपयंति, ततः
शको जिनशरीरं शिविकाया उत्तार्य चितायां स्थापयति, अन्ये देवा गणधरमुनिशरीराणि स्थापयंति, ततः शक्राज्ञया अग्निकुमारा देवा निरानंदा निरुत्साहा अग्निं ज्वालयंति, वायुकुमारा वायुं विकुर्वति, शेषाश्च देवास्तासु चितासु कालागुरुचंदनादीनि सारदारूणि निक्षिपंति कुंभशो मधुघृतैस्ताः सिंचंति,
९४४॥