SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ऋषभसेनाद्याः पंचशतानि भरतस्य पुत्राः, सप्तशतानि पौत्राश्च प्रव्रजितास्तेषां मध्ये ऋषभसेनादयश्चतुरशीतिर्गणधराः स्थापिताः, ब्राह्यपि प्रवव्राज, भरतः पुनः श्रावकः संजातः, स्त्रीरत्नं भविष्यतीति तदा भरतेन निरुद्धा सुंदर्यपि श्राविका संजातेति चतुर्विधसंघस्थापना, ते च कच्छमहाकच्छवर्जाः सर्वेऽपि तापसा भगवतः पार्श्वे दीक्षां जगृहः, भरतस्तु शक्रनिवारितमरुदेवाशोकः स्वस्थानं जगाम ॥२१२॥ (१)॥ अथ भरतश्चक्रपूजां कृत्वा शुभे दिने प्रयाणं कृत्वा षष्टिसहस्रवः भरतस्य षटू खंडानि साधयित्वा स्वगृहमागतः, चक्रं तु बहिरेव | तस्थौ, तदा भरतेनाऽष्टनवतिभ्रातृणां मदाज्ञा मान्येति दूतमुखेनाऽवाचि, ते संभूय किमाज्ञां मन्यामहे ? उत युद्धं कुर्मः ? इति प्रष्टुं प्रभुपा वें गताः, प्रभुणाऽपि वैतालीयाध्ययनप्ररूपणया प्रतिबोध्य दीक्षिता इति, तदनु बाहुबलिन उपरि दूतः प्रैषि, सोऽपि क्रोधान्धदप्पोद्धुरः सन् स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावद्युद्धमकरोत् , परं न च हारितः, तदा शक्रेणागत्य भूयस्तरजनसंहारं भवंतं ज्ञात्वा दृष्टि-वागू-मुष्टि-दंडलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः, तेष्वपि भरतस्य पराजयो जज्ञे, तदा भरतेन क्रोधान्धेन बाहुबलिन उपरि ४ चक्र मुक्तं, परमेकगोत्रियत्वात्तत्तं न पराभवत् , तदामर्षवशाद्भरतं हन्तुमना मुष्टिमुत्पाट्य धावन बाहुबलिः अहो ! पितृतुल्यज्येष्ठभ्रातृहननं ममानुचितमेव, उत्पाटिता मुष्टिरपि कथं मोघा भवेदिति विचार्य स्खशिरसि तां मुक्त्वा लोचं कृत्वा सर्व च त्यक्त्वा कायोत्सर्ग चक्रे, तदा || भरतस्तं नत्वा स्वापराध क्षमयित्वा स्वस्थानं गतः, बाहुबलिस्तु पर्यायज्येष्ठान लघुभ्रातृन् कथं नमामीति, ततो यदा केवलमुत्पत्स्यते तदैव कल्प.४१
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy