________________
कल्पसूत्र
सुबोधि०
॥२४०॥
प्रत्यासन्ने च समवसरणे मातः ! पश्य स्वपुत्रद्धिं ! इति भरतेन भणिता मरुदेवा हर्षपुलकितांगी प्रमोदाश्रुपूरैर्निर्मलनेत्रा प्रभोश्छत्रचामरादिकां प्रातिहार्यलक्ष्मीं निरीक्ष्य चिंतयामास, “धिग् ! मोहविह्वलान् ! सर्वेऽपि प्राणिनः खार्थे स्निह्यंति ! यन्मम ऋषभदुःखेन रुदत्या नेत्रे अपि हीनतेजसी जाते, ऋषभस्तु एवं सुरासुरसेव्यमान ईदृशीं समृद्धिं भुंजानोऽपि मम सुखवार्तासंदेशमपि न प्रेषयति,
वरपायवस्स अहे, अट्ठमेणं भत्तेणं अपाणएणं आसाढाहिं णक्खत्ते णं जोगमुवागए णं झाणंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे विहरइ॥२१२॥
ततो धिग् ! इमं स्नेहं,” इत्यादि भावयंत्यास्तस्याः केवलमुत्पन्नं, तत्क्षणाच्च आयुषः क्षयान्मुक्ति जगाम । अत्र कविः - “पुत्रो युगादीशसमो न विश्वे, भ्रांत्वा क्षितौ येन शरत्सहस्रम् । यदर्जितं केवलरत्नमग्र्यं, स्नेहात्तदेवार्च्छत मातुराशु ॥ १ ॥” “मरुदेवासमा नाऽम्बा, याऽगात्पूर्वं किलेक्षितुम् । मुक्तिकन्यां तनूजार्थं, शिवमार्गमपि स्फुटम् ॥ २ ॥” भगवानपि समवसरणे धर्ममकथयत्, तत्र
सप्तमः
क्षणः
॥७॥
॥२४० ॥