________________
वता सह दीक्षां गृहीतवान्, तदा च वज्रसेनजिनेन कथितमासीद्यदयं वज्रनाभो भरतक्षेत्रे प्रथम जिनो भावीति स एष भगवान्, तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुंभसमूहप्राभृतमादाय आगतस्ततोऽसौ तत्कुंभमादाय भगवन् ! गृहाणेमां योग्यां भिक्षामिति जगाद, भगवताऽपि पाणी प्रसारितौ, निस्सृष्टश्च तेन सर्वोऽपि रसः, नचाप्यत्र बिंदुरप्यधः पतति किंतूपरि शिखा वर्द्धते, यतः - "माइज्ज घडसहस्सा, अहवा नाइज्ज सागरा सवे । जस्सेआरिस लद्धी, सो पाणिपडिग्गही होइ ॥ १ ॥" अत्र कविः—
" स्वाम्याह दक्षिणं हस्तं कथं भिक्षां न लासि ? भोः ! । स प्राह दातृहस्तस्या -ऽधो भवामि कथं ? प्रभो ! ॥ १ ॥” यतः - " पूजाभोजनदानशांतिककलापाणिग्रहस्थापना - चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । [ इत्यभिधाय दक्षिणहस्ते स्थिते ] वामोऽहं रणसंमुखांकगण - नावामांगशय्यादिकृत् द्यूतादिव्यसनी त्वसौ स तु जगौ चोक्षोऽस्मि न त्वं शुचिः ॥ २ ॥ ततः" राज्यश्रीर्भवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः, संतुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु ।
"
66
2