________________
इतश्च कच्छमहाकच्छसुतौ भगवता पुत्रत्वेन प्रतिपन्नौ नमिविनमिनामानौ देशांतरादागतौ 8 है। भरतेन दीयमानं राज्यभागमवगणय्य पितृवचसा भगवत्समीपमागत्य प्रतिमास्थिते भगवति नलिनी-1 पत्रैर्जलमानीय सर्वतो भूमिसिंचनं जानुप्रमाणं कुसुमोच्चयं च कृत्वा पंचांगप्रणामपूर्वकं राज्यप्रदो।
भवेति प्रत्यहं विज्ञपयंतौ जिनं सिषेवतुः, तौ चाऽन्यदा वीक्ष्य वंदनार्थमागतो धरणेद्रो भगवद्भक्त्या | |संतुष्टोऽवादीत ,भो! भगवान्निःसंगो! मा भगवंतं याचेयां! भगवद्भक्त्याऽहमेव युवाभ्यां दास्यामीति | भणित्वाऽष्टचत्वारिंशत्सहस्रसंख्याकाः (४८०००) विद्यास्तत्र 'गौरी' 'गांधारी' 'रोहिणी' 'प्रज्ञप्ति' लक्ष-18 णाश्चतस्रो महाविद्याश्च पाठसिद्धा एव दत्तवान् , [ “यञ्चोक्तं किरणावलीकारेण अष्टचत्वारिंशत्सं-14 ख्याकाः (४८) इति तदयुक्तं, आवश्यकवृत्तौ अष्टचत्वारिंशत्सहस्राणां (४८०००) उक्तत्वात्"] अथ विद्या दत्वा उक्तवांश्चमाभिर्विद्याधरद्धिप्राप्तौ संतौ स्वजनं जनपदं च गृहीत्वा यातं युवां वैताढ्ये , नगे दक्षिणविद्याधरश्रेण्यां गौरेयगांधारप्रमुखानष्टौ निकायान् रथनूपुरचक्रवालप्रमुखाणि पंचाशन्नग-2 राणि, उत्तरश्रेण्यां च पंडकवंशालयप्रमुखानष्टौ निकायान् गगनवल्लभप्रमुखाणि च षष्ठिनगराणि