________________
कल्पसूत्र
सुबोधि०
॥२३७॥
तत्र एगं वाससहस्तं णिचं वोसटुकाए अथ प्रव्रज्यां प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्रामं विहरतिस्म, तदानीं लोकस्याऽतिसमृद्धत्वात्का भिक्षा ? कीदृशा वा भिक्षाचराः ? इति कोऽपि वार्तां न जानाति, ततस्ते सहप्रत्रजिताः क्षुधादिपीडिता भगवन्तमाहारोपायं पृच्छंति, भगवांस्तु मौनी न किमपि प्रतिवक्ति, ततस्ते कच्छमहाकच्छौ प्रति विज्ञप्तिं चक्रुः, तौ अपि ऊचतुर्यत् वयमपि
वाससहस्सं णिच्चं वोसट्टकाए चियत्तदेहे जाव अप्पाणं भावेमाणस्स एगं वाससहस्सं वइक्कंतं, तओ णं जे से हेमंताणं चउत्थे मासे, सत्तमे पक्खे,
आहारविधिं न जानीमः, पूर्वं तु भगवान्न पृष्टः, इदानीमाहारं विना तु स्थातुं न शक्यते, भरतलजया गृहेऽपि गन्तुमयुक्तं, ततो विचार्यमाणो वनवास एव श्रेयान् ! इति विचार्य भगवन्तमेव | ध्यायंतो गंगातटे परिशटितपत्राद्युपभोगिनोऽसंस्कृतकेशकूर्चा जटिलास्तापसा जज्ञिरे ॥
सप्तमः
क्षणः
॥७॥
॥२३७॥