________________
तकरा दह्यमाना भयभीताः सन्तो युगलिनो भगवन्तं विज्ञपयामासुः, भगवताचाग्नेरुत्पत्तिं विज्ञाय | भो युगलिकाः! उत्पन्नोऽग्निरत्र च शाल्याद्यौषधीनिधाय भुंग्ध्वं, यतस्ताः सुखेन जीर्यतीत्युपाये कथितेऽप्यऽनभ्यासात्सम्यगुपायमजानाना औषधीरग्नौ प्रक्षिप्य कल्पद्रोः फलानीव याचन्ते, अग्निना च । ताः सर्वतो दह्यमाना दृष्ट्वा अयं पापात्मा वेताल इवाऽतृप्तः स्वयमेव सर्वं भक्षयति नाऽस्माकं किञ्चि-18 प्रयच्छतीत्यतोऽस्याऽपराधं भगवते विज्ञप्य शिक्षा दापयिष्याम इति बुद्ध्या गच्छन्तः पथि भगवन्तं
तित्थंकरे इ वा (५) ॥ २१० ॥ उसभे णं अरहा कोसलिए दक्खे दक्खहस्तिस्कन्धारूढमभिमुखमागच्छन्तं दृष्ट्वा यथास्थितं व्यतिकरं भगवते न्यवेदयन् , भगवांश्चाह,-अत्र पिठरादिव्यवधानेन भवद्भिर्धान्यादिप्रक्षेपः कार्य इत्युक्त्वा तैरेव मृत्पिण्डमानाय्य निधाय च हस्तिकुम्भे मिण्ठेन कुम्भकारशिल्पं प्रथमं न्यदर्शयत् , उक्तवांश्च-एवंविधानि भाण्डानि विधाय तेषु पाकं कुरुध्वमिति भगवदुक्तं सम्यगुपायमुपलभ्य ते तथैव कृतवन्तोऽतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं,