SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि. ॥२३२॥ ROADSAMROSASARAM नगरी निष्पादयेत्याज्ञासमनन्तरमेव रत्नसुवर्णमयभवनपंक्तिप्राकारोपशोभितां स नगरीमवासयत् 1सप्तमः | ततो भगवान् राज्ये हस्त्यश्वगवादिसंग्रहपुरस्सरं 'उग्र' 'भोग' 'राजन्य' 'क्षत्रिय'लक्षणानि चत्वारि । कुलानि व्यवस्थापितवान् , तत्रोपदण्डकारित्वादुमा आरक्षकस्थानीयाः(१)भोगार्हत्वाद्भोगा गुरुस्थानीयाः (२) समानवयस इति कृत्वा राजन्या वयस्यस्थानीयाः (३) शेषाः प्रधानप्रकृतितयाक्षत्रियाश्च(४)1 तदा च कालपरिहाण्या ऋषभकुलकरकाले कल्पद्रुमफललाभाभावेन ये इक्ष्वाकास्ते इक्षुभोजिनः, शेषास्तु प्रायः पत्रपुष्पफलभोजिनोऽग्नेरभावाच्चापक्कशाल्याद्यौषधीभोजिनश्चाभूवन् , कालानुभावा-18 त्तदजीर्णे च खल्पं स्वल्पतरश्च भुक्तवन्तस्तस्याप्यजीणे भगवद्वचसा हस्ताभ्यां घृष्ट्वा त्वचमपनीय भुक्तवन्तस्तथाप्यजीर्णे प्रभूपदेशात्पत्रपुटे जलेन क्लेदयित्वा तंदुलादीन् भुक्तवंतः, एवमप्यजीणे कियतीमपि वेलां हस्ततलपुटे संस्थाप्य, पुनरप्यजीणे कक्षासु खेदयित्वा, तथाप्यजीणे हस्ताभ्यां मृष्ट्वा पत्रपुटे क्लेदयित्वा हस्ततलपुटे संस्थाप्येत्यादिबहुप्रकारैरन्नभोजिनो बभूवांसः, एवं सत्येकदा | ॥२३२॥ द्रुमघर्षणान्नवोत्थितं प्रवृद्धज्वलज्वालं तृणकलापं कवलयन्तमग्निमुपलभ्याऽभिनवरत्नबुद्ध्या प्र
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy