________________
कल्पसूत्रसुबोधि०
॥२१२॥
प्रावर्तत मिथो हसंति सततं क्रीडोल्लसन्मानसा-स्तावव्योमनि देवगीरिति समुद्भूता श्रुता चाऽखिलैः॥१॥|| सप्तमः मुग्धाः स्थ प्रमदा यतोऽमरगिरौ गीर्वाणनाथैश्चतुः-षष्ठ्या योजनमानवक्रहरैः कुंभैः सहस्राधिकैः।। बाल्येऽपि स्नपितोय एष भगवान्नाभून्मनागाकुलः, कर्तुं तस्य सुयत्नतोऽपि किमहो युष्माभिरीशिष्यते?” | ततो नेमिरपि हरिं ताश्च सर्वा जलैराच्छोटयतिस्म, कमलपुष्पकंदुकैश्च ताडयतिस्म, इत्यादि सवि-18 स्तारं जलक्रीडां कृत्वा तटमागत्य नेमि स्वर्णासने निवेश्य सर्वा अपि गोप्यः परिवेष्ट्य स्थितास्तत्र रुक्मिणी जगौ
निर्वाहकातरतयोद्वहसे न यत्त्वं, कन्यां तदेतदविचारितमेव नेमे !॥
भ्राता तवाऽस्ति विदितः सुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधूर्विवोढा ॥१॥ तथा सत्यभामाप्युवाच-ऋषभमुख्यजिनाः करपीडनं, विदधिरे दधिरे च महीशताम् ॥ M२१२॥
बुभुजिरे विषयांश्च बहून्सुतान् , सुषुविरे शिवमप्यथ लेभिरे ॥२॥