________________
त्वमसि किंतु नवोऽद्य शिवंगमी, भृशमरिष्टकुमार ! विचारय ॥ कलय देवर ! चारुगृहस्थतां, रचय बंधुमनस्सु च सुस्थताम् ॥ ३॥ ÷ अथ जगाद च जांबवती जवात्, शृणु पुरा हरिवंशविभूषणम् ॥
स मुनिसुव्रततीर्थपतिर्गृही, शिवमगादिह जातसुतोऽपि हि ॥ ४ ॥ ÷ पद्मावतीति समुवाच विना वधूटीं, शोभा न काचन नरस्य भवत्यवश्यम् ॥ नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेष विट एव भवेद्भार्यः ॥ ५ ॥ गांधारी जगौ - सज्जन्ययात्रा शुभसंगसार्थः, पर्वोत्सवा वेश्म विवाहकृत्यम् ॥ उद्यानका पूःक्षणपर्षदश्च शोभंत एतानि विनांगनां नो ॥ ६ ॥ गौरी उवाच - अज्ञानभाजः किल पक्षिणोऽपि, क्षितौ परिभ्रम्य वसंति सायम् ॥ नीडे स्वकांतासहिताः सुखेन, ततोऽपि किं ? देवर ! मूढदृक् त्वम् ॥ ७ ॥ | लक्ष्मणाऽप्यवोचत् - स्नानादिसर्वांगपरिष्क्रियायां विचक्षणः प्रीतिरसाभिरामः ॥