________________
कल्पसूत्रसुबोधि०
॥२११॥
बलपरीक्षणकृद्भुजवालनं, भवतु नान्यरणः खल्लु युज्यते ॥१॥" द्वाभ्यां तथैव स्वीकृतं, "कृष्णप्रसारितं बाहुँ, नेमित्रलतामिव । मृणालदंडमिव वा, वालयामास लीलया ॥१॥"
शाखानिभे नेमिजिनस्य बाहौ, ततः स शाखामृगवद्विलग्नः ।
चक्रे निजं नाम हरियथार्थ-मुद्यद्विषादद्विगुणासितास्यः ॥२॥ . | ततो महताऽपि पराक्रमेण नेमिभुजेऽवलिते सति विषण्णचित्तः कृष्णो मम राज्यमेष सुखेन ग्र-| हीष्यतीति चिंतातुरः स्खचित्ते चिंतयामास"क्लिश्यते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममंथ शंकरः सिंधु, रत्नान्यापुर्दिवौकसः ॥ १॥” | अथवा-"क्लिश्यंते केवलं स्थूलाः, सुधीस्तु फलमश्नुते। दंता दलंति कष्टेन, जिह्वा गिलति लीलया॥२॥ ___ ततो बलभद्रेण सहाऽऽलोचयति, किं विधास्ये ? नेमिस्तु राज्यलिप्सुर्बलवांश्च, तत आकाशवाणी प्रादुरभूदहो हरे ! पुरा नमिनाथेन कथितमासीद्यदुत द्वाविंशस्तीर्थकरो नेमिनामा कुमार एव प्रव्रजि
॥११॥