________________
रहितोऽपि भगवान् मित्रप्रेरितः क्रीडमानः कृष्णायुधशालायामुपागमत् , तत्र कौतुकोत्सुकैर्मित्रैविज्ञतोऽङ्गुल्यग्रे कुलालचक्रवच्चकं भ्रामितवान् , शाएं धनुर्मृणालवन्नामितवान् , कौमोदकी गदा यष्टिवदुत्पाटितवान् , पांचजन्यं शंखं च स्वमुखे धृत्वा आपूरितवान् , तदा च
“निर्मूल्यालानमूलं व्रजति गजगणः खंडयन् वेश्ममालां,
धावत्युबोव्य बंधान् सपदि हरिहया मंदुरायाः प्रणष्टाः ॥ शब्दाद्वैतेन सर्वं बधिरितमभवत्तत्पुरं व्यग्रमुग्रं,
श्रीनेमेर्वक्रपद्मप्रकटितपवनैः पूरिते पांचजन्ये ॥ १॥" तं तादृशं च शब्दं निशम्योत्पन्नः कोऽपि वैरीति व्याकुलचित्तः केशवस्त्वरितं आयुधशालायां आगतः, दृष्ट्वा च नेमि चकितो निजभुजबलतुलनाय आवाभ्यां बलपरीक्षा क्रियते, इति नेमिं वदं|स्तेन सह मल्लाक्षाटके जगाम, श्रीनेमिराह
अनुचितं ननु भूलुठनादिकं, सपदि वांधव ! युद्धमिहावयोः।
कल्प. ३६