SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ पूर्वोक्ता या द्विचत्वारिंशद्वर्षसहस्त्री सा एकविंशत्येकविंशतिवर्षसहस्रप्रमाणयोः पंचमारकषष्ठारकयोः संबंधिनी ज्ञेया एक्कवीसाए तित्थयरेहिं एकविंशतौ तीर्थंकरेषु इक्खागति इक्ष्वाकुकुलसमुत्पन्नेषु कासवगुत्तेहिं काश्यपगोत्रेषु दोहिं द्वयोर्मुनिसुव्रतनेम्योः हरिवंशकुलसमुत्पन्नयोर्गोतमगोत्रयोः एवं कासवगत्तेहिं दोहिं अ हरिवंसकुलुप्पन्नेहिं गोअमसगुत्तेहिं तेवीसाए तित्थएरेहिं विइक्कंतेहिं समणे भगवं महा वीरे चरमतित्थयरे पुवतित्थयरनिद्दिट्टे माहणकुंडगामे णयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स व तेवीसाएत्ति त्रयोविंशतौ तीर्थंकरेषु अतीतेषु समणेत्ति श्रमणो भगवान्महावीरः किं विशिष्टः ? चरमतीर्थकरः, पुनः किंविशिष्टः ? पूर्वतीर्थकरनिर्दिष्टः श्रीवीरो भविष्यतीत्येवं पूर्वजिनैः कथितः । | माहणेत्यादि ब्राह्मणकुंडग्रामनामके नगरे उसभदत्तस्सत्ति ऋषभदत्तस्य ब्राह्मणस्य किं विशिष्टस्य ?
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy