________________
जरामर्य, कोऽर्थः ? सर्वदा कर्तव्यं, अत्र अग्निहोत्रस्य सर्वदा कर्तव्यता उक्ता, अग्निहोत्रक्रिया च ।। निर्वाणकारणं न भवति, शबलत्वात् केषांचिद्वधकारणं केषांचित् उपकारकारणं इति, ततो मोक्षसा|धकाऽनुष्ठानक्रियाकालस्य अनुक्तत्वान्मोक्षो नास्ति, इति मोक्षाभावः प्रतीयते, तथा “द्वे ब्रह्मणी 8 वेदितव्ये परमपरं च तत्र परं सत्यज्ञानं अनंतरं ब्रह्मेति”इत्यादिपदैर्मोक्षसत्ता प्रतीयते इति तव* संदेहः, परं अविचारितं एतत् , यस्मात् 'जरामयं वा यदग्निहोत्रं' इत्यत्र वा शब्दोऽप्यर्थे स च भिन्नक्रमः, तथा च जरामयं यावदग्निहोत्रमपि कुर्यात् , कोऽर्थः ? कश्चित्स्वर्गाद्यर्थी यावज्जीवं अपि अग्नि-1 होत्रं कुर्यात् , कश्चिन्निर्वाणार्थी अग्निहोत्रं विहाय निर्वाणसाधकानुष्ठानमपि कुर्यात् , न तु.नियमतो-13 |ऽग्निहोत्रमेवेत्यपिशब्दार्थः, ततो निर्वाणसाधकानुष्ठानकालोप्युक्त एव तस्मादस्ति निर्वाणम् । इत्येका-18 दशो गणधरः ॥ ११॥ | एवं चतुश्चत्वारिंशच्छतानि ( ४४०० ) द्विजाः प्रवजितास्तत्र मुख्यानां एकादशानां त्रिपदीग्रहणपूर्वकं एकादशांगचतुर्दशपूर्वरचना गणधरपदप्रतिष्ठा च, तत्र द्वादशांगीरचनानंतरं भगवांस्तेषां
कल्प. ३२