SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥१८६॥ यः कश्चित्पापमाचरति स नारको भवति, अथवा नारका मृत्वा पुनरनंतरं नारकतया नोत्पद्यंते, इति प्रेत्य नारका न संतीति उच्यते इति अष्टमो गणधरः ॥ ८ ॥ अथ पुण्ये संदिग्धं, द्विजमचलभ्रातरं विबुधमुख्यम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥ १ ॥ तव संदेहकारणं तावत् अग्निभूत्युक्तं "पुरुष एवेदं ग्निं सर्वं ” इत्यादि पदं, तत्र उत्तरमपि तथैव ज्ञेयं, तथा - “ पुण्यः पुण्येन कर्मणा पापः पापेन कर्मणा ” इत्यादिवेदपदैः पुण्यपापयोः सिद्धिश्च । इति नवमो गणधरः ॥ ९ ॥ अथ परभवसंदिग्धं, मेतार्यनामपंडितप्रवरम् । ऊचे विभुर्यथास्थं, वेदार्थं किं न भावयसि ? ॥ १ ॥ यत् तव इंद्रभूत्युक्तैर्विज्ञानघन एवैतेभ्यो भूतेभ्य इत्यादिपदैः परलोकसंदेहो भवति, परं तेषां पदानामर्थमस्मदुक्तप्रकारेण विभावय यथा संदेहो निवर्त्तते इति दशमो गणधरः ॥ १० ॥ निर्वाणविषयसंदेह - संयुतं च प्रभासनामानम् । ऊचे विभुर्यथास्थं, वेदार्थं किं न भावयसि ? ॥१॥ | यतः - "जरामर्यं वा यदग्निहोत्रं ” अनेन पदेन निर्वाणाभावः प्रतीयते, कथं ? यत् अग्निहोत्रं तत् षष्ठः क्षणः ॥ ६ ॥ ॥१८६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy